अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1680, कुल 2600 में से
संदर्भ में पढ़ेंतर्हि कथं प्रश्नोपसंहारौ । परोक्षवादाद्भविष्यति । चमसवत् । 'श्रद्धा वा आप' इति श्रुतेः शुद्धिहेतुत्वसाम्यात् । 'चन्द्रमा मनसो जातः' इति श्रुतिश्चैवं परा भविष्यति । तस्मात् प्रथमाहुतावपामश्रवणाच्च ताभिः सम्परिष्वक्तो गच्छतीति चेत् । न । ता एव आप एव श्रद्धाशब्देनोच्यन्ते । हि युक्तोऽयमर्थः । यथा भाष्यप्रकाशः । गोविशेषणं सत् सुखेन क्रयेऽन्वेष्यतीति पूर्वः पक्षः । सिद्धान्तस्तु । अरुणशब्दः स्त्रीलिङ्गतया गुणिवचनः । तथा सत्यरुणगुणः स्वयोगेन द्रव्यं व्यवच्छिन्दन् द्रव्यद्वारा सुखेन क्रये करणभावं प्राप्स्यतीति तृतीयाश्रुतेस्तद्विनियोजकत्वमपि निर्बाधम् । न च प्राधान्यहानिः । इतरव्यावर्तकत्वेन तस्यैव साधनतायां मुख्यत्वात् । एवं सति वाक्यभेदोऽपि न भविष्यति । न च यथा पिङ्गाक्ष्यादिपदे समासवृत्त्या तादृशधर्मविशिष्टगोद्र- व्यबोधकत्वम्, तथारुणापदे द्रव्यबोधककृदादिप्रत्ययात्मकवृत्त्यन्तरस्याभावात् स्त्रीत्वमात्रबोधकस्य टापश्च विवक्षितगोद्रव्यपरतानन्तरभावित्वात् पूर्वं तत्परत्वाङ्गीकारे लक्षणापत्तिरिति वाच्यम् । तृतीयया बोधिते गुणस्य करणत्वे तदन्यथानुपपत्त्या द्रव्यस्य द्वारत्वं कल्प्यते । अतो घटे निश्छि- द्रत्ववदर्थबलादेव तस्य द्रव्यावच्छेदकत्वसिद्धेर्लक्षणाया अत्राभावात् । तस्मात् द्रव्यावच्छेदकत्वेना- रुणिम्नोऽपि करणत्वमिति । तथाच यथा तत्रारुणधर्मस्य मुख्यत्वम्, न गोः, तथात्र होमे मनसो होम्यत्वेऽपि श्रद्धाया एव मुख्यत्वम्, न मनस इत्यर्थः । पुनरप्याशङ्कते तर्हीत्यादि । यदि श्रद्धापदेनापो न गृह्यन्ते, तदा प्रश्न उपसंहारे च या अबुक्तिः सा विरुध्येतेति तौ केन प्रकारेण सङ्गच्छेतामित्यर्थः । समाधत्ते परोक्षेत्यादि । तथाच यथा 'अर्वाग्बिलश्चमस ऊर्ध्वबुध्न' इत्यत्र शिरःप्रभृतिचमसादिशब्दैः परोक्षवादेन गौण्या वृत्त्योच्यते, तथात्र 'श्रद्धा वा आप' इति श्रुतेः शुद्धिहेतुत्वसाम्यादाप इति पदेन श्रद्धैवोच्यत इत्यर्थः । नन्वेवमप्यदस्स्र श्रद्धापरत्वे, 'श्रद्धां जुह्वति, तस्या आहुतेः सोमो राजा सम्भवती'ति श्रद्धापरिणामत्वेन सोमस्य कथनं विरुध्येतेत्याशङ्क्य तत्परिहरति चन्द्रमा इत्यादि । एवं परेति । अनुकूला । तथाच श्रद्धायां मनःसहभावात् तद्धोमेन चन्द्ररूपस्य सोमस्य तत्परिणामतायां श्रुत्यन्तरानुकूल्यान्न कश्चिद्दोष इत्यर्थः । सिद्धमाह तस्मादित्यादि । रश्मिः । विधिरमिहोत्रे, तद्वद्वहचमसादावरुणगुणविधिरित्यर्थः । गवीति । अरुणयेति श्रुतौ गवेति विशेष्यात् । स्त्रीलिङ्गेति । 'गुणे शुक्लादयः पुंसी'ति पुंलिङ्गं विहाय स्त्रीलिङ्गेत्यादिः । द्रव्यमिति । शुक्लादिगुणयु- क्ताभ्यो गोभ्योऽरुणगुणां गाम् । तद्विनीति । द्रव्यविनियोजकत्वम् । विवक्षितेत्यादि । वृत्तावजाद्य- दन्तस्य स्त्रीत्वे विवक्षिते टाबित्युक्तेः । लक्षणेति । अरुणगव्यभेदसम्बन्धरूपलक्षणापत्तिः । विशेष्यवि- शेषणयोरभेदसम्बन्धात् । द्वारत्वमिति । करणत्वस्य व्यापारनियतत्वादिति भावः । निश्छिद्रेति । षष्ठ्यन्ताद्धतिः । घटत्वमितरव्यवच्छेदकम् । निश्छिद्रत्वं सच्छिद्रघटेभ्यः । तस्येति । अरुणस्य । शुक्ला- दिगोभ्योऽवच्छेदकत्वसिद्धेर्गोत्वस्मरणादेवाहार्यज्ञानविषयस्त्रीत्वस्मरणाल्लक्षणां विनापि तत्सिद्धेः । अत्रेति । अरुणापदे । तस्मादिति । द्रव्यरूपव्यापारसत्त्वात् । द्रव्येति । शुक्लादिगोद्रव्यावच्छेद- कत्वेन । करणत्वमिति । क्रये करणत्वम् । श्रद्धाया एवेति । मनोव्यवच्छेदक एवकारः । चम- सवदितिभाष्यं विवृण्वन्ति स्म तथाचेति । अर्वागित्यादि । बृहदारण्यकेऽस्ति । चमसवद्विशेषाधि- करणेऽर्थः सहः । श्रद्धा वा इति भाष्यं विवृण्वन्ति स्म तथात्रेति । अप्पदस्येति । अप्छब्दस्य ।