अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1682, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २७ श्रद्धाप्रयोगस्तु कामनाकृतव्यावृत्त्यर्थः । तत्र फल एव श्रद्धा, न कर्मणि । 'यो यच्छ्रद्धः स एव स' इति श्रद्धाया आश्रयस्य विषयभावजनकत्वात् कर्तुः कर्मभा- वाय श्रद्धाप्रयोगः । ततः संस्कृता आपो यजमानरूपा हूयमाना भवन्तीति सिद्धं भवति । तस्मात् प्रथमेऽप्यपामस्ति श्रवणम् ॥ ५ ॥ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥ स्थितमेतज्जीवः सम्परिश्वक्तो रंहतीति । तत्र विचार्यते । सर्वे जीवाः सम्प- रिष्वक्ता गच्छन्ति, आहोस्विज्ज्ञानोपयोगिन इति विमर्शः । तत्र पञ्चाहुतिब्राह्म- णे नाधिकारिणः श्रुताः । वेदे हि श्रुतानुसारिकल्पना । अतो विशेषस्याश्रुत- त्वात् सर्वेषामेव पञ्चाहुतिप्रकार इति चेत् । न । इष्टादिकारिणां प्रतीतेः । साधारण- पक्षं दूषयति । कुतः । इष्टादिकारिणां प्रतीतेः । इष्टादिकारिणः प्रतीयन्ते श्रद्धा- भाष्यप्रकाशः। तत्रेति । सकामे यष्टरि । फल एव श्रद्धा आदर उपादेयबुद्धिविशेष इति यावत्, न कर्मणि । तथाच श्रद्धाया अयं स्वभावो यत् स्वाश्रयं स्वविषयं करोतीति गीतावाक्यादवधार्यते । अतो निष्कामस्य कर्मण्येव श्रद्धेति तादृशकर्तुः कर्मात्मकत्वं बोधयितुं श्रद्धाप्रयोग इत्यर्थः । एवमुपपादनेन सिद्धमाहुः तत इत्यादि । सूत्रात् सिद्धमाहुः तस्मादित्यादि ॥ ५ ॥ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः॥६॥ अस्या आहुतेः फलं विचारयितुं किञ्चि- दाशङ्क परिहरतीत्याहुः स्थितमित्यादि । स्थितमिति । निर्धारितम् । ननु निर्णीते संशयस्योच्छि- न्नत्वात् को विचारांश इत्यत आहुः सर्व इत्यादि । संशयबीजं तु विशेषाश्रवणम् । उपकारार्थं देवानां प्रवृत्तिश्च । पूर्वपक्षांशं व्याकुर्वन्ति तत्रेत्यादि । नाधिकारिणः श्रुता इति । न श्रुता इत्यन्वयः । सिद्धान्तांशं व्याकुर्वन्ति इष्टादिकारिण इत्यादि । श्रद्धापदेन देवकर्तृत्वेन चेति । 'यो वै श्रद्धामनारभ्य यज्ञेन यजते, नास्येष्टाय श्रद्धत' इत्यश्रद्धालुनिन्दया 'उभयेऽस्य देवमनुष्या इष्टा यः श्रद्धते' इति श्रद्धालुस्तुत्या च श्रद्धावत एव यज्ञः फलमुख इति पूर्वकाण्डे लभ्यते । अत्र रश्मिः। सौत्राणां 'ता एवोपपत्ति'रितिशब्दानां व्याख्यानभूतेन । प्रातिकूल्यमिति । चन्द्रमसोऽब्जातत्वेन मनो- जातत्वबोधकश्श्रुतिविरोधरूपप्रातिकूल्यम् । दर्शयन्तीति । स्वमतोक्तयैव दर्शयन्ति स्म श्रद्धे- त्यादीति । कामनया कृतो होमस्तद्व्यावृत्त्यर्थ इति भाष्यार्थः । विभजन्त इति । सकामानिष्काम- त्वेनोभयं यष्टारं विभजन्ते तत्रेत्यादीति । एवकारव्यवच्छेद्यमाहुः न कर्मणीति । अग्रिमभाष्यस्य पिण्डि- तार्थमाहुः तथा चेति । स्वाश्रयं यजमानम् । स्वं श्रद्धा तद्विषयं कर्म तत्करोतीति 'यो यच्छ्रद्धः स एव स' इति गीतावाक्यादवधार्यत इत्यर्थः । तथा च भाष्ये आश्रयस्य जीवस्य । विषयः कर्म । तद्भावजनकत्वात् । तस्मादित्यादीति । प्रथम इति । उपक्रमे ॥ ५ ॥ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥ अत्राविना पूर्तम् । 'अथ य इमे ग्राम इष्टापूर्ते दत्त इत्युपासते ते धूममभिसम्भवन्ती'ति श्रुतेः । परीति । भगवान् व्यासः । विशेषेति । अधिकारिविशेषाश्रवणम् । अत्र संशयादिकं सौत्रम्, न त्वधिकरणत्वसमर्पकम् । विषयवा- क्यपदाभावात् । एवेति । अश्रद्धाव्यवच्छेदकोयम् । फलमुख इति । फलोपायः । 'मुखं निःसरणे 1563