अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1689, कुल 2600 में से
संदर्भ में पढ़ें३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० २ सू० ८. एव तस्मात् स्थानादपगच्छति । अन्यथा सद्य एव देहपातः स्यात् । अतो यथा लोके सानुशयः, तथात्रापि । स्मृतिश्च 'यद्यन्न नः स्वर्गसुखावशेषितं स्विष्टस्य दत्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म नः स्यात् वर्षे हरिये- द्भजतां शं तनोति' इति देवगाथा । अतो ज्ञानौपयिकजन्म सानुशयवत एव भवति । अन्यथा पूर्वजन्मस्मृत्यभावे विषयासक्तिः प्रसज्येत । भाष्यप्रकाशः। प्रथमं तस्यैव देवकृतत्वेनोक्तत्वात् । न तु कर्म । तस्य मुख्यफलावधिकत्वेनावान्तरफलभोगतस्तद- त्यागाभावादत्ययपदविरोधापत्तेः । अनुशयोऽत्रावान्तरफलसाधिका या सामग्री तस्या लेशः । अतः सोमभावनाशे तथेत्यर्थः । हेतुं व्याकुर्वन्ति दृष्टमित्यादि । अन्यथा सद्य एव देहपातः स्यादिति । उक्तरूपस्य लेशस्यापि कर्मजन्यत्वेन कर्मनाश एव तन्नाशात् 'प्रारब्धकर्मनिर्वाणे न्यप- तत् पाञ्चभौतिक' इतिवत् सद्य एव देहः पतेत् । तथा सति गमनं न सम्भवेत् । अतो यथा लोके सानुशयः, तथात्रापीत्यर्थः । नन्वेवं सत्यावश्यकत्वाल्लाघवाच्च कर्मशेष एवानुशयोऽस्तु, न तु साम- ग्रीशेषोपीत्यत आहुः स्मृतिरित्यादि । तथाचास्यां गाथायां शेषिनं स्विष्टं दत्तं कृतमित्युक्त्वा, यत् 'स्विष्टस्य दत्तस्य कृतस्य शोभन' मिति स्विष्टदत्तसम्बन्धिसमीचीनमुक्तम्, तेन कर्मजन्यो भोगसा- धकसामग्रीलेश एव विवक्षित इति ज्ञायते, न कर्मशेषः, अतः स एवात्रानुशय इत्यर्थः । सिद्ध- माहुः अत इत्यादि । ननु 'कदाचित् सुकृतं कर्म कूटस्थमिव तिष्ठति । मज्जमानस्य संसारे यावद् दुःखाद्विमुच्यत' इत्यन्या स्मृतिः कर्मरूपमप्यनुशयं दर्शयतीति नैकान्त उक्तरूपानुशय- निश्चय इत्यत आहुः अन्यथेत्यादि । उक्तरूपसानुशयस्याभावे पूर्वजन्मसंस्कारस्याभावेन पूर्व- जन्मस्मृत्यभावे सति विषयासक्तिः प्रसज्येत । अतः प्रकृते उक्तरूप एवानुशयो ग्राह्य इत्यर्थः । रश्मिः । तस्य प्रश्नस्य प्रतिवचने । तस्यैवेति । सोमभावस्यैव । एवोऽन्यव्यवच्छेदकः । नत्विति । कृतशब्देन