सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1691, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1691

३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० २ सू० ९. जातत्वात् । चकारात् वैराग्यसहितोऽपि । तस्मादनुशयवान् भिन्नप्रकाराद्भिः परि- ष्वक्तो देवकृपासहितो वृष्टिर्भवतीति ॥ ८ ॥ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥ किञ्चिदाशङ्क्य परिहरति । ननु नात्रोत्तमजन्मार्थमनुशयोऽपेक्ष्यते, चरणा- देव भविष्यति, 'तद् य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनि- मापद्येर'न्नित्यादिना यः पूर्वजन्मनि विहिताचारं करोति, स उत्तमं जन्म प्राप्नोति, यस्तु निषिद्धाचरणं करोति, स श्वादियोनिं प्राप्नोतीति 'साधुकारी साधुर्भवति'- त्यादिश्रुत्या च प्रतिपाद्यते, प्रकृते तु तस्य रमणीयचरणस्य चरणादेव तस्य सम्यग् जन्म भविष्यति, किमनुशयसद्भावेनेति चेत् । न । चरणश्रुतौ या योनिरुक्ता, सा उपलक्षणार्था, अनेन पूर्वजन्मनि समीचीनं कृतमिति ज्ञापिका, न तु तस्मिन् भाष्यप्रकाशः। नीचैर्वृष्टिमावार्य रंहति । चकारो नीचैरागमनस्य द्योतकः । तत्र हेतुः दृष्टस्मृतिभ्यामिति ॥८॥ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥९॥ किञ्चिदित्यादिना सूत्रमवतार्य पूर्वपक्षांशं व्याकुर्वन्ति नन्वित्यादि । श्रुतौ 'अभ्याशो हे'ति पदं क्षिप्रार्थकम् । यत्पदं तु क्रियावि- शेषणं हेत्वर्थकं वा । तथाच यद्यप्येताभ्यां श्रुतिभ्यां यथायथमाचारतः कर्मतश्च जन्मोक्तम्, तथापि प्रकृते पञ्चाग्निप्रकरणे तु चरणादेवोक्तम्, अतोत्र तदेव ग्राह्यमित्यर्थः। परिहाराशयमाहुः नेत्यादि। चर- णस्य जन्मनियामकत्वोपगमेपि न तज्जन्मीनकर्मनियामकत्वम् । उक्तरूपनिषिद्धकर्मप्रत्यक्षविरोधात् । रश्मिः। कत्वं तद्युक्तागमनमपां नास्ति । भोगस्य चन्द्रमण्डले जातत्वादागमनसमये तदभावात् । उपसंहारा- दाहुः चकारादिति । अपिनानेवं चेत्यस्य यथेतमित्यनेन समुच्चयः । अपिः समुच्चये । एवं शेषं स्फुट- मित्यर्थः । वैराग्येति । भोगानन्तरं वैराग्यप्रसिद्धेः । 'तस्माज्जुगुप्सेते'त्युपसंहाराच्च । संस्कारेति । संस्कृतेन्द्रियसंस्कारेण द्विगुणसंस्कारेण ततो गमनादुत्कर्षात् । बोध्यमिति । अनुशयवानिति । विद्याप्रकरणेन कपूययोनिबाधाय ज्ञानौपयिकदेहसाधनाय चेदम् । देवकृपासहित इति तु देव इत्यनुवृत्तावपि पुनर्देवाः सोमऽ राजानं जुह्वतीति देवपदोपादानात् । तच्छेषवानिति । कर्मजन्य- भोगसाधकसामग्रीलेशवान् । भिन्नेति । गमनप्रकारे भोगसाधकत्वं आगमनप्रकारे वैराग्यसाहित्यम् । भोगस्य जातत्वात् । किञ्च । गमनमुच्चैः द्युलोकस्योच्चत्वात् । तद्भिन्नप्रकारेण नीचैर्नीचैस्त्वेन । अनेन ययेतमनेवं चेत्यनयोर्विरोधः परिहृतः । ययेतं तथागतं इत्युक्तानेवं आगमनमित्युक्तेर्विरोधः । रंहती- त्यनुवर्तते पूर्वसूत्रात् । चकारार्थो भाष्ये वाच्य उक्तोऽतस्तस्य भाष्योक्तस्य द्योत्यार्थमाहुः चकार इति ॥८॥ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥ इतिपदमिति । नच 'अव्य- यादाप्सुप' इति विभक्तेर्लुका लुप्तत्वेन पदत्वाभावः 'न लुमताङ्गस्ये'ति सूत्रादिति शङ्क्यम् । पदशब्दस्य शब्दे लक्षणाङ्गीकारात् । अभेदो लक्षणा । पदशब्दयोरभेदात् । शक्तं पदं वा । क्वचिन्नैयायिकमताङ्गी- कारात् । यथायैव सोमादृष्टिभावे रूपरसादीनामिति । एताभ्यामिति । रमणीयचरणकपूयचरणाभ्यां 'साधुकारी साधुर्भवति पापकारी पापो भवती'त्येताभ्याम् । जन्मेति । कपूयरमणीयजन्मोक्तम् । चरणादेवेति । एवकारः साधुकारीतिश्रुतिव्यवच्छेदकः । अनुशयव्यवच्छेदको वा । तदेवेति । चरणम् । एवकारोऽनुशयसद्भावव्यवच्छेदकः । अन्यथेत्यादि विवृण्वन्ति स्म चरणस्य जन्मे- त्यादि । अयमन्यथाशब्दार्थः । अपिगर्हायाम् । उक्तेति । भाष्योक्तश्रुत्युक्तकपूयचरणरूप- 1572