भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 172, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 172

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८५ तस्माद् ब्रह्म जिज्ञासितव्यमिति सिद्धम् ॥ १ ॥ ॥ इति प्रथमाध्याये प्रथमपादे प्रथमं जिज्ञासाधिकरणम् १ ॥ भाष्यप्रकाशः । रित्यर्थः । सिद्धमाहुः तस्मादित्यादि । ब्रह्मसंबन्धिनां विचारेऽपि ब्रह्मणो विषयत्वस्यार्थतः सिद्ध- त्वात् तादृशगुणकत्वेन ब्रह्म जिज्ञास्यमिति सिद्धमित्यर्थः । अपेक्षितगुणवत्तयैवात्र ब्रह्म जिज्ञास्यं, न त्वशेषविशेषशून्यतयेति शेषषष्ठ्येव युक्तेत्यत्र गमकमप्याहुः किञ्च इत्यादि१, इतीत्यन्तम्। तथा च प्रथमसूत्रे ब्रह्मविचारं प्रतिज्ञाय ब्रह्मणो येन रूपेण वेदार्थता तानि रूपाणि प्रकाराँश्च वक्तुमग्रिमे कार्यलक्षणं प्रमाणं च वदतीत्यतस्तथेत्यर्थः । एवं विषये निर्धारिते प्रतिपाद्यप्रतिपादकभावः संब- न्धोऽप्यनुक्तसिद्ध एवेति प्रेक्षावत्प्रवृत्त्युपयुक्तं सर्वमत्र निरूपितम् । प्रकारभेदेन काण्डद्वयस्यापि ब्रह्म- रश्मिः । जनयतीति स्वीकाराच्च । नापि स्वभावः प्रवर्तकः । तस्यापि मूलविमर्शे वेद एव विश्रान्तेः । ईश्व- रेच्छेत्यपि न युक्तं, शब्दं विना तस्या एवासिद्धेः । तदग्रे स्फुटिष्यति । निःश्वसितश्रुतेर्बुद्धिपूर्वकमे- वाभिव्यञ्जनान्नेश्वरप्रत्यक्षोपजीवकत्वं, तेन वेदः प्रमाणम् । इदं चौत्पत्तिकसूत्रतात्पर्यार्थकथने उक्तमपि स्पष्टप्रतिपत्तिप्रयोजनकम् । अस्मदादिमुखेनापि ब्रह्मैव क्रीडयितुं वाक्यं वदति इति सर्वाणि वाक्यानि वेदतुल्यानि ब्रह्मवाक्यत्वादिति सिद्धान्तः । 'स एष जीवो विवरप्रसूतिः' इत्यत्र 'एवं गतिः' इति श्रुति- देशात् । अत्र श्रोत्रं प्रमाणकं शब्दस्त्वतिग्रहः 'श्रोत्रं वै ग्रहः स शब्देनातिग्रहेण गृहीतः श्रोत्रेण शब्दा- न्शृणोति' इति बृहदारण्यकश्रुतेः । 'चक्षुर्वै ग्रहः स रूपेणातिग्रहेण गृहीतः रूपं पश्यति' इतिवदानुपूर्थ्या अभावात् । अत एव शब्दगुणकमाकाशमित्याकाशलक्षणे शब्दप्रवेशः । उष्णस्पर्शवत्त्वं तेजस्त्वमिति तेजोलक्षणेन रूपप्रवेशः कृत इति शुभम् । न चैवं सकलवाक्येषु निर्दुष्टत्वं स्यात् । न । योग्यावय- वैरेव वाक्यनिर्माणोपगमात्, योग्यावयवैरेव पदार्थनिर्माणवत् । अन्यथा घोटकस्य निर्मातुः शृङ्ग- निर्माणमप्यापद्येत । क्रीडैव प्रयोजिकेति तु तत्त्वम् । एवं निःसंदेहा इत्यर्थः । यथादर्शनमाहुः ब्रह्म- संबन्धिनामित्यादि । न च ब्रह्मपदस्य वेदान्तवाचकत्वं 'वेदान्तानां विचार आरम्भणीयो न वेति' भाष्येण सिद्धयति । ततश्च वेदान्तानां विचार आरम्भणीय इति सिद्धमिति भाष्यमस्तु । न तु ब्रह्म- जिज्ञासितव्यमितिभाष्यं सिद्धकथनभाष्यत्वादिति वाच्यं 'षडङ्गो वेदोध्येयो ज्ञेयश्च' इतिश्रुतेः । षडङ्गैरेव निर्वाहे मीमांसाया अनङ्गत्वेन वेदान्तविचारानावश्यकत्वेऽस्य शास्त्रस्यानुपयोगेनारम्भणीयतास्य स्यात्त- न्निवृत्त्यर्थमारम्भणीयताप्रतिपादनपुरस्कारेण वेदान्तेषु मुख्यतया प्रतिपाद्यस्फोरणाय अथातो वेदान्त- विचारः' इत्यसूत्रयित्वा 'अथातो ब्रह्मजिज्ञासा' इति सूत्रणादत्रैव सूत्रान्त इति करणसामर्थ्यात्किं- चेत्याद्यन्येत्यर्थात् च पूर्वशेषतायाः संभवदुक्तिकत्वाद्देहलीदीपन्यायेनाभासमवतारयन्ति अपेक्षिते- त्यादि । अतस्तथेत्यर्थः । उक्तग्रन्थसंवादान्नेषषष्ठ्येव युक्तेत्यर्थः । एतेन 'तद्विजिज्ञासस्व तद्ब्रह्म' इति श्रुत्येकवाक्यतार्थे कर्मणि षष्ठी युक्तेत्यपि प्रत्युक्तम् । स्वरूपलक्षणं परित्यज्य कार्यलक्षणकथनेन शेष- षष्ठयामेव व्यासचरणानां तात्पर्यात् । प्रतिपाद्यप्रतिपादकभावसंबन्ध इति मीमांसाब्रह्मधर्मयोः स संबन्ध इत्यर्थः । अत्रेति जिज्ञासाधिकरण इत्यर्थः । प्रकारभेदेनेति क्रियाज्ञानत्वभेदेनेत्यर्थः । १. द्वितीयसूत्रविवरणे द्रष्टव्यम् । 85