भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1720, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1720

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६५ तदर्थं देवापेक्षा । तथा सति न कोपि व्यभिचारः । कथं पुरुषशब्दमात्रेण च ज्ञायते, तत्राह । अथ आनन्तर्यात् । शरीरार्थमेव देवैस्तत्र तत्र होमः कृतः । भाष्यप्रकाशः । निरास इत्याकाङ्क्षायां तदुपपादयन्ति पौरुषमित्यादि । तथाच पुरुषपदेनैतादृशो रेतःसिगभिग्रेयते, तादृशे योऽन्नहोमः, स प्राणाग्निहोत्रोपनिषदाद्युक्तप्रकारेणेति तत्र देवापेक्षा । न हीन्द्रियाधिष्ठातृ- देवप्रसादं विना तथा भोक्तुं शक्यते । ईश्वरेच्छया भवनेपि तेषामेव द्वारत्वात् । अत एव रश्मिः । पौरुषमित्यादीति । अत्र 'ऋतौ भार्यामुपेया'दिति श्रुत्या भार्या देशः ऋतुः कालः संश्रैतं विधानं तेन संविधानेन मन्त्रवत् । पुत्रमन्थब्राह्मणोक्त 'बहु वा इद ँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति । तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीदधौषधीरप्यसरद्यदपः । इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः पुनरग्नयो धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादा- यान्तरेण स्तनौ वा भ्रुवौ वा निमृज्या'दित्यत्रोक्तमन्त्रयुक्तं रेतः तस्य सेकसामर्थ्यम् । विहितत्वार्थे तृती- यान्तं कारणत्वार्थम् । मन्त्रवदिति रेतोविशेषणम् । नन्वेवमित्येतच्छब्देन पूर्वभाष्यसङ्गतिः । एतत्पौरुष- मित्यर्थात् । तदर्थं होमार्थम् । देवापेक्षा इन्द्रियदेवापेक्षा । तथा सतीति । इन्द्रियदेवापेक्षया शरीरकारणत्वे सति । न कोपि । ज्ञानोपयोगिशरीरत्वेन इन्द्रियदेवत्वेन कार्यकारणभावः । अत्र 'तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चे'ति श्रुत्युक्तविद्याकर्मपूर्वप्रज्ञारूपकारणव्यभिचारो न । साधारण- देहत्वेन विद्याकर्मपूर्वप्रज्ञात्वेन कार्यकारणभावात् । तृणारणिमणिन्यायोऽत्र । भाष्यसिद्धार्थमाहुः तथा चेति । एतादृश इति । देशकालसन्निधानेन मन्त्रवद्रेतः सेकसामर्थ्यवान् रेतःसिगभिग्रेयते । सूत्रेण 'पुरुषो वावे'ति श्रुतौ पुरुषो रेतःसिगिति प्रयोगार्हतःसिक्तवेन रूपेण पुरुषोपस्थितिः । घटः पृथिवीत्यत्र पृथिवीत्वेन घटोपस्थितिवत् । एतेन मन्त्रवद्रेतःसेक सामर्थ्यमित्यन्तं भाष्यसिद्धार्थ उक्तः । ततस्सङ्गत्यर्थं तादृश इत्यादिग्रन्थः भाष्यीयैतत्तदर्थः इत्यन्तः । सुगमान्वयस्तूक्तः एतच्छब्दार्थः पौरुषमिति पूर्वम् । प्राणाग्नीति । 'यदन्नमद्मि बहुधाति राजन् रुद्रैः प्रजग्धं यदि वा पिशाचैः । सर्वत ईशानो अभयं नः कृणोतु शिवमीशानाय स्वाहे'ति । अग्रे 'प्राणाय (प्रदानाय) स्वाहा अपानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहे'ति कनिष्ठिकायाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोती, अनामिकयाऽपाने, मध्यमया व्याने, प्रदेशिन्या समाने, सर्वाभिरुदाने, तूष्णीमेका एक ऋषौ जुहोति । अत्र पुष्टिमार्गे शिवः प्रथमः 'मद्भक्तपूजाम्यधिके'ति वाक्यात् । तदग्रे पञ्च प्राणाः । तदग्रे प्रकारः । तत्र अत्यभीत्यतिशब्दा- न्वयः । राजन् वरुण । 'यन्मे भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः । तन्नो वरुणो राजा पाणिना ह्यवमर्शत्वि'ति श्रुतेः । प्रजग्धं प्रभक्षितम् । नोऽस्माकम् । कृणोतु विकरणव्यत्ययः । उं भावित्वा श्रुः । स्वाहा देवतोद्देशेन त्यक्तमन्नम् । कनिष्ठकाया इत्यत्र ककारेऽज्विकारः कनिष्ठकया । जुहोतीति दीर्घपाठे ई । एका इत्यत्रामो ऽः । एक इति सप्तम्यन्तम् । सर्वनामसंज्ञाया वेदे विकल्पान्न- स्मिन् । ऋषौ ब्रह्मणि । प्राणाग्निहोत्रोपनिषदादीत्यत्रादिना तैत्तिरीये 'अन्नं न निन्द्यात्तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठित' इत्यादि । पुत्रमन्थ- ब्राह्मणं च अग्रे स्फुटम् । तत्र देवापेक्षेति । तदर्थं देवापेक्षेति भाष्यार्थः । तत्रेत्यस्य होम इत्यर्थः । देवापेक्षायां युक्तिमाहुः नहीति । इन्द्रियं मनस्तदाद्यधिष्ठातृदेव ईशानादिस्तस्य प्रसादस्तं विना । तथेति । प्राणाग्निहोत्राद्युक्तप्रकारेण । तेषामिति । देवानाम् । एवकारस्तु श्रुत्यादौ दर्शनात् अन्यव्यवच्छेदकः । अत एवेति । तथा सतीति भाष्यसिद्धार्थः । इन्द्रियदेवापेक्षया ज्ञानोपयोगिदेहकारणत्वादेव । ब्र० सू० २० १ 1601