भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1727, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1727

७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० ८ सू० २७ योग्यदेहः साधनसहितो ब्रह्मज्ञानार्थं निरूपितः ॥ २७ ॥ इति तृतीयाध्याये प्रथमपादेऽष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥ १ ॥ भाष्यप्रकाशः । तत्र प्रयतां सर्वेषां चन्द्रगत्योक्ता, सा न युक्ता । प्रयाणस्य मरणरूपत्वेन क्षुद्रजन्तुष्वपि तुल्यतया तेषामप्यारोहाद्यापातात् । तेषामसकृदावृत्तिश्रुत्या निवारणे कौषीतकिश्रुतिस्थसर्वपदस्य सङ्कोचार्हताया आवश्यकत्वे अनिष्टाधिकारिणामपि 'वैवस्वते विविच्यन्ते' इति श्रुत्या वारणादिष्टा- दिकारिपरतया संकोचेपि बाधकाभावात् । पञ्चाग्निक्रमेणोत्पत्तेरौत्सर्गिकत्वोक्तिरपि तथा । बहुषु व्यभिचारे औत्सर्गिकत्वस्य वक्तुमयुक्तत्वात् । संशोकजव्याख्यानमग्रिमाधिकरणस्थसाभाव्यपद- व्याख्यानं च पूर्ववदेवासंगतम् । यत्पुनरवान्तरसृष्टेरपि ब्रह्मकर्तृकत्वप्रतिपादनार्थमयं पाद इत्युक्तम् । तच्चविरुद्धत्वादनुमन्यामहे ॥ २७ ॥ इत्यष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥ इति श्रीवल्लभाचार्यचरणनखचन्द्रकिरणनिवारितहृदयध्वान्तेन पीताम्बरात्मजेन पुरुषोत्तमेन कृते ब्रह्मसूत्रभाष्यप्रकाशे तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥ १ ॥ श्रीः ॥ रश्मिः । क्षुद्रादिजीवानाम् । निवारण इति । चन्द्रगतिनिवारणे । चन्द्रगतावसकृदावृत्त्यभावात् । कौषी- तकीति । 'ये वै के चास्माल्लोकात्प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतिः । वारणादिति । चन्द्रगतिवारणात् । सङ्कोच इति । विपरीतलक्षणया संकोचे । यथा 'बहूपकृतं त्वये'त्यपकारिणि लक्षणया बहूपकृतपदसंकोचः । औत्सर्गिकत्वेति । साप्युत्सर्गाभिप्रायेणेति ग्रन्थेन पूर्वमुक्ता । बहु- ष्विति । 'सदेव सोम्येदमग्र आसीत्' 'तस्माद्वा एतस्मादात्मनः' 'तदात्मानं स्वयमकुरुते'त्यादिषु । शङ्करैः प्रथमाधिकरणे बीजैः सम्परिष्वक्त एव गच्छतीति साधितम् । द्वितीये सानुशया अवरोहन्ति । तृतीये पापिनां स्वर्गे गमनाभावः । चतुर्थे धूमादिभावो धूमादिभिः सम्बन्धः । पञ्चमे व्रीह्यादिभावा- न्निर्गमो दुष्कर इति विलम्बः पूर्वं त्वरेति । षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रमिति । सिद्धान्ते तु प्रथमे सफला प्रथमाहुतिः । द्वितीये द्वितीयाहुतिः सफला । तृतीये पुष्टिमार्गीयाणां मर्यादामार्गीयाणां च सोमभावः, न सर्वेषाम् । चतुर्थे मर्यादायामेव पञ्चमाहुतिः निरोधलक्षणग्रन्थोक्तकर्तॄनुमेया । तस्या नियमः । न पुष्टौ । 'जायस्व म्रियस्वे'ति मार्गस्य यममार्गप्रवेशश्च । पञ्चमे तृतीयाहुतिः सफला । षष्ठे संस्कारेणाङ्गशुद्धिः । सप्तमे रेतसः पुरुषभावः । अष्टमे बहिर्निर्गतस्यैव पुरुषत्वमिति ॥ २७ ॥ इत्यष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥ इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण सम्पूर्णविद्या विट्ठलरायजीदौहित्रीयगोकुलोत्सवजिदात्मजगोपेश्वरजिता कृते भाष्यप्रकाशरश्मौ तृतीयाध्यायस्य रश्मौ प्रथमपादः सम्पूर्णतामगमत् ॥ ३ ॥ १ ॥ इति श्रीकृष्णद्वैपायनप्रणीतब्रह्मसूत्रेषु तृतीये उपनिषदां बोधकताप्रकारनिरूपके साधनाध्याये अधिकारिजन्मनिर्धारो नाम प्रथमः पादः ॥ 1608