भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1748, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1748

। तथाच हेतुमति साध्यसत्त्वान्न साधारण्यमित्यनुमानपक्षेपि भाष्यार्थः सुष्ठु । प्रकृते । मायिकेति । इयं ज्ञानात्मिका ग्राह्या । 'स्वप्नः सुप्तस्य विज्ञान' इति कोशात्स्वप्नस्य ज्ञान- त्वात् । जीवस्येति । ननु 'सुषुप्तिस्त्वकामरूपो भगवा'निति 'सुषुप्त्युत्क्रान्ति'सूत्रभाष्यविरोध इति चेत् । न । 'अकामरूपत्वादानन्दस्ये'त्युभयरूपत्वात् । प्राकरणिक इति । ज्योतिर्मय प्राकरणिकः हेतुश्चरणाभिधानादिति । एवं व्याख्यान इति । ब्रह्मजीवसाधारण्येन व्युत्पादनसापेक्षतच्छ्रुतिरूप- हेतुव्याख्याने । अयमर्थः । अन्यत्र तदभावपदेन स्वप्नदर्शनाभावो व्याख्यातः । 'तद्वा अस्यैत'दिति श्रुतिर्नोक्तेति । लाक्षणिकेति । स्वप्नदर्शने लाक्षणिकता । दर्शनमनुव्यवसाय इत्यपि गौरवग्रस्तः पक्षः । हृदयदेशादिति भाष्ये ल्यब्लोपे पञ्चमीत्याहुः हृदयेति । 16