अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1756, कुल 2600 में से
संदर्भ में पढ़ेंतथा 'सति सम्पद्ये'त्यादयश्च । विधयश्च 'श्वोभूते ब्रह्माणं वृणीते' 'श्वोभूते शेषं समामृश्यात्' 'एक एव यजेत' 'द्वादशरात्रीर्दीक्षितः स्या'दित्यादि, 'यः कामयेत वीरो म आजायेते'त्यादयः । भगवतैव मर्यादारक्षार्थं तथा करणात् । पूर्वपक्षयुक्तयो दुर्बलाः । तस्मात् स एव प्रतिबुध्यते ॥ ९ ॥ भाष्यप्रकाशः। वैदिकं हेतुद्वयं व्याकुर्वन्ति शब्दाश्चेत्यादि । तथाच सौषुप्तिकसत्सम्पत्त्या मुक्तौ पुण्यपापात्म- कफलाभावादुक्तवाक्यं विरुध्येत । 'कैष' इत्यत्रा'प्येष' इत्यनेन सुप्तं आगतं चैकमेव परामृशति । तदपि विरुध्येत । 'सति सम्पद्ये'त्यत्रापि सर्वासां प्रजानामज्ञानं वदति । यदि ता मुक्ताः स्युः, तदा अज्ञानोक्तिरपि विरुध्येत । अत एते शब्दाः सुप्तप्रबुद्धस्यैकस्यैव ज्ञापकाः । एवं विधयोपि । ननु भवत्व