अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1774, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ ननु सर्वव्यवहारातीते शास्त्रवैफल्यम्, 'मनसैवेदमाप्तव्य'मिति विरोधश्च न परिहृतः, 'तं त्वौपनिषदं पुरुषं पृच्छामि' 'यतो वाचो निवर्तन्त' इति चेत्यत आह । प्रकाशवत् । यथा सौरः प्रकाशो व्यवहार्योऽव्यवहार्यश्च, न हि स्वतः सम्पादयितुं शक्यते, स्थापयितुं वा, आगते तु सूर्ये मेघाद्यभावे च सान्निध्यमा- त्रेण व्यवहारः कर्तुं शक्यते, तथा लौकिकवाङ्मनोभिर्न शक्यते व्यवहर्तुम्, ईश्वरसन्निधाने तु शक्यत इति द्वयमाह श्रुतिः । कुत एतदवगम्यते । तत्राह । अवैयर्थ्यात् । अन्यथा शास्त्रं व्यर्थ स्यात् । चकाराद्धर्माणं तथात्वविरोधः परि- हृतः । 'आसीनो दूरं व्रजति' 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणो- भाष्यप्रकाशः। त्यर्थः । तेन सिद्धमाह तस्मादित्यादि । कार्यवदिति । प्रपञ्चवत् । न भगवद्धर्मत्वमिति । न नित्यभगवद्धर्मत्वम् ॥ १४ ॥ प्रकाशवच्चावैयर्थ्यात् ॥ १५॥ सूत्रमवतारयन्ति नन्वित्यादि । सर्वकर्मत्वादीनामौपचारि- कत्वात् प्रशासितृत्वादीनां चालौकिकत्वेन सम्यग्बुद्धावनारोहात् सर्वव्यवहारातीते ब्रह्मप्यङ्गीकारे कृते ज्ञेयत्वेनापि व्यवहारस्यासम्भवाज्ज्ञानार्थस्य विचारशास्त्रस्य वैफल्यम् । 'मनसैवैतदाप्तव्य'मिति विरोध इति । सर्वव्यवहारातीतस्य मनोविषयत्वाभावेन, तथा एतस्याः श्रुतेः 'अप्राप्य मनसा सहे'त्यनेन च सह विरोधो न परिहृत इत्यर्थः । अस्मिन् सूत्रे प्रकाशवदिति न मतुप्, किन्तु तृतीयान्ताद्वतिः । पूर्वसूत्रादेकदेशभूतमपि तत्पदमनुवर्तते । तत् ब्रह्म प्रकाशेन तुल्यम् । तत्र कथं तुल्यमित्याकाङ्क्षायां सूत्रं व्याकुर्वन्ति यथेत्यादि । व्यवहार्यत्वाव्यवहार्यत्वे व्युत्पादयति- नहीत्यादि । स्थापयितुमिति । आयातो यथा नापयाति तथा निरोद्धुम् । सन्निधाने तु शक्यत इति । उपासनादिसाधनेनेश्वरसन्निधाने प्रतिबन्धकाभावाच्छक्यते । द्वयमिति । मनसा वाचा चावाप्यमनाप्यं चेति द्वयम् । शास्त्रमिति । मनसैवैतत्, तापनीयरूपम्, ज्ञानफलबोधकं 'तमेवे'त्यादिरूपं चेत्यादिकं उभयबोधकं शास्त्रम् । प्रकाशतुल्यत्वसङ्ग्राहकचकारसूचितं धर्माणं लौकिकत्वादिविरोधपरिहारं व्याकुर्वन्ति आसीन इत्यादि । अलौकिका इति । लोकविरुद्धाः । रश्मिः। षवत्पदेन । अतिरिक्ताः धर्मा वैदिकाः तेषां कल्पनस्य सिद्धिरारोपार्थम् । नित्येति । साक्षात् । साक्षाद्धर्मा नित्यभगवद्धर्माः ॥ १४ ॥ प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ बुद्धाविति । यथा बालस्य शृङ्गममितोयादिभ्यो वारितस्य बुद्धौ वारणादेरनाहरूढत् । मनसेति भाष्यं विवृण्वन्ति स्म मनसैवेति । इति चेति भाष्यीयचकारार्थमाहुः एतस्या इति । सन्निधाने तु शक्यत इति । ईश्वरसन्निधानं हृदि 'प्रविष्टः कर्णरन्ध्रेणे'तिवाक्यात् । फलप्रकरणे प्रसिद्धम् । व्रजभक्तेषु ईश्वरसन्निधानं भगवद्वाक्यपूर्वपक्षीकरणसमये । प्रतिबन्धकेति । अलौकिके तु लौकिकत्वरूपप्रतिबन्धकाभावात् । तापनीयेति । 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' । एवंरूपं शास्त्रम् । अत्र मनश्चक्षुषोः करणत्ववि- रोधः । तमेवेति । 'तमेव विदित्वातिमृत्युमेती'ति । किञ्चादिना 'यतो वाच' इत्यपि । अत आहुः उभयेति । मनश्चक्षूरूपकरणबोधकम् । मनसा वाचा चावाप्यमनाप्यं चेति बोधकम् । धर्माणाम- 1653