अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1779, कुल 2600 में से
संदर्भ में पढ़ें१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७. विद्यमानत्वात् प्रपञ्चधर्मवचनं तस्मिन्नौपचारिकमेव युक्तम् । श्रुत्यैव तथा प्रति- पादनात् । चकारः पूर्वयुक्त्यनुसन्धानार्थः । अथो इति प्रक्रमभेदोपि । ‘अथात आदेश' इति भिन्नप्रक्रमेणाह । श्रुतेरन्यार्थतानिरकरणायाह । अपि स्मर्यते । ‘अनादि मत्परं ब्रह्म न सत् तन्नासदुच्यते' इति । सदसतोः क्षेत्रत्वात् । ज्ञेयनि- रूपणे निषेधः । प्रपञ्चधर्मा भगवति उच्यन्ते वेदादौ, न तु तद्धर्मा भवन्तीति ज्ञापयति । तस्माच्छ्रुतिस्मृतिभ्यामेव तथा निर्णयः ॥ १७ ॥ भाष्यप्रकाशः। हेतुः । तेषां प्राणानां एष परमात्मैव सत्यं स्वरूपभूत इति । यद्वा । सद्द्रूपत्वात् त्यद्रूपत्वाच्च सत्यं प्राणास्तेषामेष स्वरूपभूत इति । तथाच व्याख्यानवाक्यमपि न निषेधस्य प्रपञ्चे पर्यवसानं गम- यति, न वा ब्रह्मणः सर्वविशेषशून्यत्वे, किन्तु ब्रह्मणः प्रपञ्चप्रकारकत्वे प्रपञ्चसमवायिमात्रत्वे चेत्येतदर्थं रूपनामवत्त्वार्थं च नामनिर्वचनम् । तदेतदुक्तं इतीत्यादिना । तेन यत् सिद्धं तदाहुः तेनेत्यादि । नामव्याख्यानपूर्वकं ब्रह्मणोतिरिक्तत्वस्थापनेन ब्रह्मणस्तथात्वात् तथेत्यर्थः । प्रक्रम- भेदोपीति । प्रकारभेदेनब्रह्मातिरेकयोरुपोद्वलक इत्यर्थः । स्मृतौ ब्रह्मणः सदसत्त्वं निषिध्यते इति कथं तेन विवक्षितव्यतिरिक्तार्थवारणमित्यतो व्याकुर्वन्ति सदसतोरित्यादि ॥ १७ ॥ रश्मिः। सत्यमित्यन्वयः । सत्यं नाम नाविद्यकाः, किन्तु ब्रह्मविवर्तभूताः ब्रह्मणो विशेषेण वर्तनभूताः । ब्रह्मावैवर्तपुराणमपि भवति । परमात्मैवेति । तदन्याभावादेवकारोऽन्ययोगव्यवच्छेदकः । अन्यत्पर- मस्तीत्यत्रान्यत्त्वमिति पुस्तकान्तरपाठात्तत्प्रतमर्थमाहुः यद्वेति । प्रपञ्च इति । मूर्त्तामूर्त्तरूपे । किंवा वीप्सेत्युक्तद्वितीयपक्षे आहुः न वा ब्रह्मण इति । प्रपञ्चेति । पञ्चमहाभूतप्रकारकत्वे । प्रपञ्चेति । ब्रह्मणोऽभिन्ननिमित्तोपादानत्वादिति भावः । इतीतीति । इति रूपमित्यादिना । अतिरिक्तत्वेति । पञ्चमहाभूतातिरिक्तत्वस्थापनेन । तथेति । प्रपञ्चधर्मस्य पञ्चमहाभूतत्वस्य वचनं तस्मिन् ब्रह्मणि औपचारिकत्वं लाक्षणिकत्वं स्वसमवायिकारणत्वं सम्बन्धः । एवकार आरोपापवादसङ्गतिसत्त्वात् । श्रुत्यै- वेति अस्थूलादिश्रुत्यैव । तथेति । औपचारिकत्वम् । स्वमावतो निषेधायोगात् । प्रकारेति । प्रक्रमो मूर्त्तामूर्त्तयोः । तस्य भेदं सौत्रोथोशब्द आहेति । निषेधो हि विधिरूपप्रकारस्य भेदेन निषेधरूपप्रकारेण भवति । अतः पूर्वस्मात्प्रकारभेदः । अभावरूपनिषेधे ब्रह्मणोऽतिरेकोऽभावः । नहि खपुष्पे ब्रह्मास्ति । प्रतीत्यभावेन तस्यैवाभावात् । खपुष्पं तु ब्रह्मास्ति । ‘यदस्ति यन्नास्ति स एव विष्णु'रिति विष्णुपुरा- णात् । तयोः सतोः । उपोद्वेति । नहि घटो नास्तीत्यादिस्थले प्रक्रमभेदेनाभावनिरूपणमस्ति सत्यपि प्रक्रमभेदे । अथो इति शब्दप्रमाणेन तु सतोऽपोद्बलनात्पृथग्रूपनिरूपणमस्ति । ‘अथातो ब्रह्मजिज्ञासा' ‘अथातो धर्मजिज्ञासे'ति ब्रह्मधर्मयोः ब्रह्मकर्मणोर्वैक्यात् । 'कर्मके तत्र दर्शना'दिति जैमिनिसूत्रे धर्मस्थले कर्मोक्तिः । भाष्ये । अथो इति विषयवाक्यघटकथशब्दपर्याय इत्याहुः अथात इति । यतोतः सूत्रेपि भिन्नप्रक्रम इति भावः । मत्परमिति । अहं परो यस्येति मत्परम् । कथं तेनेत्यादि । सदसन्निषेधेन कथं विवक्षितोर्थः अस्थूलादिरूपः तद्व्यतिरिक्तो जडजीवधर्मो औपचारिका ब्रह्मणीति तद्व्यतिरिक्तार्थः वैदिकधर्मवद्ब्रह्म तस्य वारणमित्यर्थः । सदसतोरित्यादीति । निरूपण इति । गीतायाम् । निषेधः ज्ञापयतीत्यन्वयः । किं ज्ञापयतीत्यत आहुः प्रपञ्चेति । उच्यन्त इति । उपचारेणोच्यन्ते, न तु 1658