अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1784, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १२७ तथा धर्मा ग्रहीतुं शक्नुवन्ति । धर्मत्वान्न । सर्वाधारत्वेन तथोच्यमाने वैयर्थ्य- भाष्यप्रकाशः। मास्तु धर्माणाद्युपाधिभूतानां प्रतिबिम्बग्राहकत्वम्, तथापि द्युभ्वाद्यधिकरणविषयवाक्ये ब्रह्मणः सर्वाधारतायाः सिद्धत्वाद् ब्रह्मण्येव मनःप्रभृतीनां तद्धर्माणं च प्रतिबिम्बोस्तु, तथा सति तेषां धर्माणामौपचारिकत्वमेव सेत्स्यतीत्यत आहुः सर्वेत्यादि । यद्यपि रूपरहितस्य ब्रह्मणो न प्रतिबिम्बग्राहकत्वम्, आकाशादितुल्यत्वात्, तथापि भारूपत्वमादाय ग्रहिततया तथोच्यमाने तेषां धर्माणाद्युपाधिधर्मत्वेनैव प्रत्ययः । लोके हि स्थिर आधारे प्रतिबिम्बचञ्चलतायां तद्धर्मे चलने बिम्बीयत्वेनैव भानस्य दृष्टत्वात् । अतस्तद्धर्मत्वेन उपासनाया असिद्धेस्तदनुवादवैयर्थ्यमिति पूर्वं अरूपवत्सूत्रव्याख्याने सर्वशब्दस्य प्रसिद्ध