सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1786, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1786

ज्ञत्वाच्च । विप्लववादिन एवैवं वचनम्, न वैदिकस्य । 'पृथिव्यां तिष्ठ'न्नित्यादिविरो- धश्च । तस्मात् ब्रह्मधर्मा एव सर्वकामादयः, न तूपाधिसम्बन्धादौपचारिका इति ॥ १९ ॥ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥ सिद्धान्तेन विरोधपरिहारमाह । विरोधो हि परिहरणीयो लोकवेदाभ्यां तद- भाष्यप्रकाशः। च भ्रमात् कल्पनम् । तत्तु नात्र वेदेनोच्यते । अप्रतारकत्वात् सर्वज्ञत्वाच्च । यदि ह्येवं सत्यत्वं निगमयन् स्वयं सम्यक् ज्ञात्वा परस्मा आरोप्यान्यथा ब्रूयात्, प्रतारक एव स्यात् । अज्ञात्वा- रोपितं चेद् ब्रूयात्, सर्वज्ञत्वादेव हीयेत । अतो नात्र तथा वक्तुं शक्यमित्यर्थः । एतेन मध्वादि- विद्यास्विवात्र कल्पनोपदेश इत्यपि निरस्तम् । तत्रैवमवचनात् । सांख्यवादिं प्रति तद्रीतिबोधने तत्र तथा कथनाच्च ।