अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1788, कुल 2600 में से
संदर्भ में पढ़ेंस्वधर्मा एव ते । कारणत्वादिवत् । नचागन्तुकत्वात् तद्धर्मा एव न भवन्तीति वाच्यम् । अन्यधर्मत्वे प्रमाणाभावात् । तद्गतत्वप्रतीतेश्च । दृष्टत्वाच्चाविरोधः । अविरोधप्रकारोऽयम् । यथोभयसामञ्जस्यं भवति, प्रकारोपि तस्यैव तथा भाष्यप्रकाशः। जपाकुसुमलोहित्यवदन्यधर्मत्वेन प्रत्यायिताः स्युः, तदा तेषामौपाधिकत्वं स्यात् । प्रत्यायिता- स्त्वात्मविशेषणेष्वात्मधर्मत्वेन, अतो न तथात्वमित्यर्थः । ननु यद्यप्येते आत्मविशेषणत्वेनोक्ताः, तथापि मनोमयत्वादिकं पूर्वमुक्त्वा पश्चादुक्ताः, तेन ब्रह्मणो मनआद्यनुविधायित्वमेव स्फुटीकृतम्, तथा सति तेषां तद्धर्मत्वमेव, न ब्रह्मधर्मत्वम्, अन्यानुविधायित्वस्यैव स्फुटीभावादित्यत आहुः अन्येत्यादि । तदभिध्यानसूत्रे आकाशादिलिङ्गतया तत्तदनुविधायित्वस्य सिद्धत्वान्न मनआ- द्यन्यानुविधायित्वेपि सर्वकामादयो ब्रह्मधर्मा एव । यथा तन्त्रत्यं कारणत्वम् । आदिपदेन 'विशि- ष्टशक्तिर्बहुधैव भाती'ति स्मृत्युक्तं शक्तिविश्लेषादिकमपि संगृहीतं ज्ञेयम् । तेन स्वल्पकार्यकरणेपि नौपाधिकत्वमित्यर्थः । नन्वेवमन्यानुविधायित्वे तेषामागन्तुकत्वं तु सिद्धम्, तथा सति नैसर्गि- कत्वाभावादन्यधर्मा एव भवन्ति, न तु भगवद्धर्मा इत्यत आहुः नचागन्तुकेत्यादि । 'कामः सङ्कल्प' इति श्रुतौ 'अशुद्धं कामसङ्कल्प'मिति श्रुतौ च कामसङ्कल्पयोः केवलयोरेव मनोधर्मत्वं श्रूयते, न तु सर्वत्वसत्यत्वविशिष्टयोस्तयोः, अतोऽन्यधर्मत्वे श्रुत्यभावः। लिङ्गवाक्यप्रकरणाभावस्तु स्फुटः । स्थानं त्वन्यानुविधानेनैव व्याख्यातम्, अतः प्रमाणाभावात् तथेत्यर्थः । समाख्या तु बहुव्रीहिणा ब्रह्मधर्मत्वमेव स्फुटीकरोतीत्याहुः तद्गतेत्यादि । ननु यद्यप्येवम्, तथापि युक्ति- मिरनुचिन्तनस्य मननत्वात् तच्छेषत्वेनैतत्पाठोप्यासनाशेषत्वमेव, न तु स्वतन्त्रब्रह्मधर्मत्वमेषाम्, यथा अस्थूलत्वादीनाम्, अतस्तदपेक्षया निर्बलत्वात् कथमविरोध इत्यत आहुः दृष्टत्वाच्चा- विरोध इति । 'सोऽकामयत बहु स्यां'मित्यत्र सर्वविषयककामस्य ब्रह्मधर्मत्वेन दृष्टत्वादेतेषां स्वाभाविकब्रह्मधर्मत्वेन नैर्बल्याभावादविरोध इत्यर्थः । नन्वेवं सति धर्मविधिनिषेधयोरेकविषय- त्वाद्विरोध एवायातीति कथमविरोध इत्यत आहुः अविरोधेत्यादि । अयमस्मदुक्तरीतिकः । रश्मिः। पाधिकत्वमित्यादीति । जपेति । विलक्षणलौहित्यबोधनाय जपाकुसुमोपादानम् । वैलक्षण्यं त्वन्य- धर्मत्वम् । 'तत्स्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेः सर्वकामत्वादीनामन्यस्योपाधेर्धर्मत्वाभावात् । अन्येति । उपाध्यनुविधायित्वेपि धर्माणां ते धर्माः स्वस्य ब्रह्मण एव, नतूपाधेः, श्रुतावुपाधिसमत्वोक्त्या तथाव- सायात् । समत्वं धर्मैरिति । ननु समत्वेपि विभुत्वविरुद्धा अन्य धर्मा इति चेत्, तत्राहुः एवेति । 'यदेकमव्यक्तमनन्तरूप'मिति श्रुत्या निर्धारणादित्यर्थः । एवेत्यस्मात्पञ्चम्या लुक् । ननु स दोषस्तदवस्थ इति चेत्, तत्र दृष्टान्तमाहुः कारणत्वेत्यादि । नहि कारणत्वमुपाधिगतमुपाधेयेस्ति । 'कर्ता शास्त्रार्थ- वत्त्वा'दित्यधिकरणविरोधात् । आदिना सत्यत्वादयः । तद्वदिति न स दोषस्तदवस्थ इति भावः । ननु कारणत्वादयो नागन्तुका इति दृष्टान्तवैषम्यमिति प्रतिवादिनं पर्यनुयुञ्जतेस्म नचागन्तुकेति । जानाति इच्छति यतत इति प्रवादात् सर्वकामादीनां ज्ञानाधीनत्वेनागन्तुकत्वात्ते तद्धर्माः ब्रह्मधर्मा एव न । एवकारो 'नहि जन्या भगवद्धर्मा भवन्ती'ति तयोर्व्यवच्छेदकः । श्रुत्यादीति । आदिना १. न चौपाधिकत्वमित्यादि प्रमाणाभावादिति, युक्तादिरूपमात्रार्थेलिङ्गाभावात् । तद्गतत्वेत्यादिना तेषां वाक्यव- त्त्वानङ्गीकारे प्रत्यक्षविरोधोपीति बोधितम् । तस्यैवेति, विचार्य वस्तुन एव । शिष्टमाहुः तथेत्यादि । एवं ब्रह्मण्यपीति । तत्तदुपाध्यन्तर्भूतं तथा तथा भवति, तथा च पूर्वमर्ककार्यसूत्रे व्योमवच्चेत्यनेन यदुक्तम्, तदेवात्र स्मारितम् । अत्र ब्रह्मधर्मविचारप्रसङ्गेन जीवधर्मोपि विचारित इत्याशयेनाहुः दृष्टत्वात्पदेनेति मूलपाठः रश्मौ व्याख्यातः ।