भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 180, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 180

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३

किंच, तत्र किं लक्षणं किं प्रमाणकमिति जिज्ञासायामाह सूत्रकारः।

भाष्यप्रकाशः।

एवं पूर्वाधिकरणे वेदार्थभूतब्रह्मणो जिज्ञास्यत्वे साधिते कथं जिज्ञास्यमिति प्रकारविशेषा- काङ्क्षायां समन्वयाविरोधाभ्यां तस्य वक्तव्यत्वात् तद्बोधकमग्रिमसूत्रमवतारयन्ति तत्रेत्यादि। तेषु वक्तव्येषु तदुपजीव्यतया उक्तजिज्ञासायां लक्षणप्रमाणात्मकं प्रकारद्वयं पूर्वमाहेत्यर्थः।

रश्मिः।

पूर्वाधिकरणे ब्रह्मजिज्ञासापदेन त्रैवर्णिकोऽर्थजिज्ञासुरधिकारी, ब्रह्मसंबन्धी विषयः, प्रतिपाद्य- प्रतिपादकभावः संबन्धः, शाब्दं ब्रह्मज्ञानं च फलम्, तस्याप्यानन्दावाप्तिः फलमित्यनुबन्धचतु- ष्टयमुक्तम्। अन्यच्च षडङ्गैरेव वेदार्थनिश्चयस्य संभवादधिकाकाङ्क्षायाश्च तपःप्रभृतिभिरेव पूरणात् वेदान्ता अजिज्ञास्या इत्याशङ्क्य ऋषिप्रणीतशास्त्रपार्थक्यबाहुल्यात् तच्छ्रवणे बुद्धिदोषान्मन्दानां संदेहे तन्निवृत्तये इदं शास्त्रं कर्तव्यम्। यद्यपि 'सर्वे वेदा यत्पदमामनन्ति' इत्यादिना ब्रह्मण एव वेदा- र्थता तथापि 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति पुरुषरूपता 'वेदान्तविज्ञानसुनिश्चितार्थाः' इति वेदान्तानामर्थनिश्चायकता चाज्ञायते। तस्मात् तपःप्रभृतीनामसंभवाद् वेदान्तविचारेणैव वेदार्थभूतब्रह्मस्वरूपनिश्चय इति ब्रह्मसंबन्धिविचारः श्रीमद्बादरायणाचार्यैः प्रस्तूयत इत्युक्तम्। अतो वक्ष्यमाणानि यावन्त्यधिकरणानि समाप्तिपर्यन्तानि तावन्त्यस्यैव विषय इत्युक्तं भवति। अतो विषयविषयिभावसंगत्याधिकरणमवतारयन्ति एवं पूर्वेत्यादिना। साधित इति 'वेदार्थ- ब्रह्मणो वेदानुकूलविचार इति' इति भाष्येऽस्माभिः भूतपदं समावेश्य वेदार्थभूतं ब्रह्म वेदार्थ- ब्रह्म इति समस्य साधित इत्यर्थः। साधनं तु वेदार्थावेदार्थभूतत्वेपि वेदार्थभूतत्वेन ब्रह्मग्रहणाद् भक्त्येकलभ्यत्वेवेदार्थत्वम्। अवेदार्थत्वे तु वेदानुकूलविचाराविचारविषयत्वापत्तेः। नन्वेतस्य प्रकाशे सर्वपदं समावेश्य व्याख्यानं सर्ववेदार्थत्वेन ब्रह्म जिज्ञास्यमिति ग्रन्थेनेति चेन्न, सर्ववेदार्थत्वस्य वेदार्थमात्रपर्यायत्वेन वेदार्थभूतैत्वाद्यनुपदस्योक्तप्रकाशविरोधापत्तेः। तेन सर्ववेदार्थत्वं न वेदार्थमात्रत्वं किंतु वेदार्थभूतत्वं सर्ववेदार्थत्वप्रयोजकं लक्षणयेति। एतेन 'वेदैश्च सर्वैरहमेव वेद्यः' इत्यपि व्याख्यातं, सर्ववेदार्थत्वं वेदार्थभूतत्वं विना न संभवतीति। प्रकारविशेषा- काङ्क्षायामिति। सामान्यप्रकारकजिज्ञासाया विशेषप्रकारकजिज्ञासाजनकत्वात् तादृशाकाङ्क्षायां सामा- न्यप्रकारेण बृहत्त्वबृंहणत्वरूपब्रह्मत्वेनाजिज्ञास्यत्वाद् विशेषपदोपादानम्। तस्येति प्रकारविशेषस्य कर्तृत्वलक्षणस्य। इदमध्यायद्वये स्पष्टम्। तद्बोधकमिति लक्षणप्रमाणबोधकम्। सर्वविरुद्धधर्मा- श्रयत्वरूपप्रकारविशेषस्य वक्तव्यत्वाद् ब्रह्मणो निमित्तत्वादिबोधकमित्यर्थः। तत्रेत्यादीति। अत्र किंच तत्रेत्यादीति वक्तव्येपि अवतरणान्तराभावेनानन्यथेत्यासंभवादारम्भो वक्तव्यः, स च कर्मा- नध्याहरन् न समर्थ इति अध्याहाराभावार्थतावदेवोपात्तम्। किंचेति त्यक्तं तद्बीजं पूर्वमुक्तम्। तेषु वक्तव्येष्विति तत्र ब्रह्मणिति पूर्वत्रार्थः। अत्राभासे तु प्रकारविशेषेषु वक्तव्येषु इति तत्रेत्य- स्यार्थः। तेच समन्वयसूत्रादारभ्याभिन्नानिमित्तोपादानतादयो विशेषप्रकाराः। संगतिमधिकरणयोराहुः तदुपजीव्यतयेति। लक्षणप्रमाणाभ्यां सामान्यप्रकाराभ्यां वस्तुसिद्धेर्वस्तूपजीव्याश्च तन्निष्ठाः प्रकाराः सामान्यविशेषरूपा इति तथेत्यर्थः। सधर्मकस्य निर्धर्मकाभिन्नत्वेनोक्तजिज्ञासाविषयत्वमत उक्तमुक्तजिज्ञासायामिति उक्तजिज्ञासाविषये ब्रह्मोद्देशपदेपि। लक्षणप्रमाणात्मकमित्यादिः। अतस्तदुपजीव्यता प्रकारविशेषोपजीव्यता तत्कारणता तया, तेनोपजीव्योपजीवकभावः संगतिरित्यर्थः।


१. 'पक्षज्ञानं हि करणं द्वारं तत्र पदार्थधीः। शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी' इति विचारोऽर्कस्य। 93