भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1800, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1800

यहाँ पृष्ठ की प्रत्येक पंक्ति का देवनागरी में लिप्यन्तरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम्। १४३ तत् कथं स्वरूपशक्त्या निर्णयः। ब्रह्म तूभयरूपम् । उभयव्यपदेशात् । उभय- रूपेण निर्गुणत्वेनानन्तगुणत्वेन सर्वविरुद्धधर्मेण रूपेण व्यपदेशात् । तर्हि कथ- मेकं वस्त्वनेकधा भासते । तन्नाह । अहिकुण्डलवत् । यथा सर्प ऋजुरनेकाकारः भाष्यप्रकाशः। निर्णय इत्यर्थः । एवं तुशब्दं व्याख्याय शेषं व्याकुर्वन्ति ब्रह्मेत्यादि । न केवलं स्वरूपशक्त्या निर्णीयते, किन्तु श्रुत्युपष्टम्भ्येत्यतो हेतुं विवृण्वन्ति उभयेत्यादि । उभयोर्विरुद्धधर्मयोर्व्यपदेश उभयव्यपदेशस्तस्मात् । यत्रैवास्थूलादिवाक्ये निर्गुणत्वेन व्यपदिश्यते, तत्रैव 'आकाश ओतश्च प्रोतश्चे'ति कथनात् कार्यगुणजनकत्वानन्तगुणवत्तापि बोध्यते । तथा, यत्र शारीरब्राह्मणे 'स एष नेति नेत्यात्मा, अगृह्यो न हि गृह्यत' इत्युच्यते, तत्रापि 'स वा अयमात्मा सर्वस्य वशी सर्वस्ये- शान' इत्यादिकं पूर्वमुच्यते । 'स वा एष महानज आत्मा अन्नादो वसुदान' इति चानन्तरम् । एवं श्वेताश्वतरेपि 'साक्षी चेता केवलो निर्गुणश्चे'त्युक्त्वा, 'एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोती'त्यादि । तथा तत्रैव 'ततो यदुत्तरतरं तदरूपमनामय'मित्येतदग्रे, 'सर्वा- ननशिरोग्रीवः सर्वभूतगुहाशय' इति । एवं तैत्तिरीयेपि 'यदेकमव्यक्तमनन्तरूप'मिति, तथा 'विश्व- तश्चक्षुरुत विश्वतोमुख' इत्यादि चोक्तम् । 'कृत्स्नः प्रज्ञानघन एवे'त्यस्यार्थस्तु प्रागेवोक्तः । तथा 'अथात आदेश' इत्यस्यापि । एतेष्वेवंविधेष्वन्येष्वपि उभयरूपेण व्यपदेशात् । तथाचास्थूलादिवा- क्यस्य धर्मनिषेधमुखेनेव 'विश्वतश्चक्षु'रित्यादेर्धर्मविधिमुखेनापि ब्रह्मस्वरूपस्यैव निरूप्यतया धर्म- विधिद्वारा तन्निषेधद्वारा च निरूपकाणां मध्ये एकस्योपजीव्यत्वमन्तरङ्गत्वम्, अन्यस्योपजीवकत्वं बहिरङ्गत्वमिति निर्णेतुमशक्यत्वेनोभयवाक्ययोस्तुल्यबलत्वादुभयरूपमेव ब्रह्मेत्यर्थः । दृष्टान्तमव- तारयन्ति तर्हीत्यादि । यद्युभयलिङ्गं ब्रह्म, तदा संराधनसिद्धानां सर्वेषां तथैव प्रकाशेत, न तु कञ्चित् प्रति कथञ्चित्, अन्यं प्रत्यन्यथा, अत एकं वस्तु कथमनेकधा भासते, तत्र हेतुर्वक्तव्यः, रश्मिः। चेत् । न । तात्पर्यवृत्तिविषयस्य विरुद्धधर्माधारत्वस्य तेन प्रकारेणाज्ञानेऽज्ञानरूपत्वादन्यथाज्ञानरूपत्वा- चाज्ञानान्यथाज्ञानयोरन्तर्भावात् । तत्कथमिति भाष्यं विवृण्वन्ति स्म अत इति । तच्छक्तेरिति । वेदपदशक्तेः । इत्यर्थ इति । निर्णयशब्दान्तभाष्यर्थः । स्वरूपेति । प्रमेयबलेन । उभयव्यपदेशश्रु- त्युपष्टम्भेन । हेतुमिति । स्वरूपं न यथाश्रुतिप्रतिपाद्यं संज्ञतेः मूर्तामूर्तब्राह्मणवत् । स्वरूपं यथाश्रुति- प्रतिपाद्यं उभयव्यपदेशात् अहिकुण्डलवदित्यत्र सप्रतिपक्षत्वसाधके हेतुम् । यत्रैवेत्येवकारो विरुद्धधर्मा- धारत्वेन प्रतिपादनसूचक इत्युक्तम्। यत्रान्यत्र धर्मनिरूपणमन्यत्र निषेधस्तत्रारोपापवादसङ्गतिसन्देहोपी- त्युक्तम्। कार्येति । 'आकाशशरीरं ब्रह्म'तिश्रुतेः 'आकाशो वै नामरूपयोर्निर्वहिते'ति तथा। बोध्यत इति । व्यञ्जनया बोध्यते । पूर्वमिति । स्पष्टम्। अनन्तरमिति । 'स एष नेति नेत्यात्मे' त्यस्या अनन्तरम् । प्रागे- वेति । 'आह च तन्मात्र'मितिसूत्रभाष्यप्रकाशे 'दर्शयति' चेतिसूत्रभाष्यप्रकाशे च । एवकारश्च पश्चाद्योगव्यव- च्छेदकः । एवंविधेष्विति । 'अपाणिपादो जवनो ग्रहीते'त्यादिषु । धर्मविधिमुखेनेति । धर्मवि- धानं तत्कथनं तेनोपादेयेन । एवेति । 'वेदैश्च सर्वैरहमेव वेद्य' इति श्रुतेरेवकारः । एवेति । अवधारणं यथा भवति तथा । एकरूपत्वयोग्यव्यवच्छेदको वा। तथैवेति । सर्वरूपवत्वेन, नत्वेकेन तत्तत्संराधकं १. आरोपापवादरूपायाः। 1679