अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1808, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१ पूर्ववद्वा ॥ २९ ॥ एकदेशिमतेनापि सर्वसमाधानमाह । अथवा । 'अरूपवदेव ही'त्यादिपञ्च- सूत्र्या यः सिद्धान्तः कथितः, तादृशं वा ब्रह्म प्रतिपत्तव्यम् । अयमाशयः । वेदस्थापनार्थं हि प्रवृत्तिः । तत्र यथा अक्षरमात्रस्यापि बाधो न भवति, तथा वक्तव्यम् । यदर्थमुभयरूपता अङ्गीकृता, तत्र धर्माणां भाष्यप्रकाशः। पूर्ववद्वा ॥२९॥ सूत्रमवतारयन्ति व्याकुर्वन्ति च एकेत्यादि । अथेत्यादि च । वाश- ब्दः पक्षान्तरे । पूर्ववत् । 'अरूपवदेव ही'ति पञ्चसूत्र्या यः सिद्धान्तः कथितः, प्रपञ्चविलक्षणं तत्समवायित्वेपि न तत्प्रकारकम्, नापि समवायिमात्रम्, किन्तु ततोप्यतिरिक्तं कृत्स्नं चिन्मात्र- स्वरूपं यदा आविर्भवति, तदा व्यवहार्यं भवति । तत्र जडजीवधर्मा औपचारिक इत्येवंरूपः । तादृशं कारणरूपं ब्रह्म प्रतिपत्तव्यमित्यर्थः । एतन्मताभ्युपगमे बीजं व्युत्पादयन्ति अयमित्यादि । तथाच यत् पूर्वोपगमे बीजम्, तदेवात्रापीत्यर्थः । बीजमुक्त्वा पञ्चसूत्रीसिद्धस्य प्रकृते यथा विवक्षितत्वम्, तयोपपादयन्ति तत्र धर्माणामित्यादि । तस्मिन् पक्ष एकदेशिप्रतिपन्नमौप- चारिकत्वं दूषयित्वा नित्यप्राप्तत्वेन स्थापितानां धर्माणां स्वरूपस्य वृत्तिमत्त्वस्य निर्वाहार्थं सविशे- षनिर्विशेषभेदेन ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । ततो वैलक्षण्येन भेदे सत्यद्वितीयत्वश्रुतिर्बाध्येत । तथाच तदभावायोत्पत्त्या विचारः कर्तव्यः । यो यथा यथा परिणमते, स तत्तद्भावानपि पूर्वमव्यक्तः घटपटदध्यादिरूपेण परिणममानमृत्तन्तुदुग्धादिवदिति । एवमुत्पत्त्या विचारे कारणभूतं निर्धर्म- कमेव ब्रह्म सेत्स्यतीति पूर्वं तादृशमेव प्रतिपत्तव्यम् । ततश्च ब्रह्माहिकुण्डलवदुभयरूपम्, तद्धर्माः प्रकाशाश्रयवद्भिन्नाभिन्ना इत्युपपत्त्या विचारोपि कारणरूपानुरोधेनैव कर्तव्यः । तत्र कथं कर्तव्य इत्याकाङ्क्षायां कारणविचारे श्रुतावेकविज्ञानेन सर्वविज्ञानस्य प्रतिज्ञातत्वाद्धर्माणामपि ब्रह्म- रूपत्वं वक्तव्यम् । तदैव तदुपपद्यते, न तु धर्माणां नित्यभिन्नत्व आविद्यकत्वे वा । आद्ये भिन्न- त्वेन, द्वितीये मिथ्यात्वेन च तत्प्रतिबन्धात् । नचाविद्यकत्वेप्यसत्यव्यावृत्तत्वेन सत्यरूपब्रह्मज्ञाने [L2