अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1810, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३ समानम् । उत्पत्त्या चोपपत्त्या च विचारद्वयम् । उपपत्त्या पूर्वनयनं स्वसिद्धान्तः । भाष्यप्रकाशः। ॠव्याख्योक्तप्रकारिकया उत्पत्त्या, पूर्वसूत्रव्याख्योक्तप्रकारिकया उपपत्त्या च अस्मिन्नधिकरणे विचारद्वयम् । तयोर्मध्य उपपत्त्या पूर्वनयनम् । मैत्रेयीब्राह्मणे 'स यथा सैन्धवघन' इत्यादिना चिन्मात्रत्वेन प्रतिपादितस्यैवात्मनः 'अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मे'त्यनेन स्वरूपा- विनाशधर्मानुच्छित्त्योः कथनेन स्वरूपधर्मयोर्नित्यत्वबोधनात् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति स्वरूप- लक्षणस्ये सत्यपदेपि 'सत्यस्य सत्य'मिति नामधेयतन्निर्वचनयोरनुरोधेन मूलसद्रूपत्वमूलत्यरूपत्व- योरपि बोधनात् । नृसिंहोत्तरतापनीये तुरीयनिरूपणे तुरीयस्य प्रपञ्चोपशमत्वमुक्त्वा, 'ईश्वरग्रासः खराट् स्वयमीश्वर' इति ईश्वरत्वश्रावणात् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दिति प्रपञ्चात् परस्य कारणस्य ऐकत्वादिसप्रपञ्चधर्मवत्त्वश्रावणात्, द्वितीयस्कन्धे भगवता 'पश्चादह'मिति, तृतीयस्कन्धे मैत्रेयेण 'यथेदानीं तथाचाग्रे पश्चादप्येतदीदृश'मिति, विष्णुपुराणे प्रथमेंशे 'तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पव'दिति रश्मिः। तौल्यात् । यथा विरुद्धधर्मकल्पनायां 'नैषा तर्केणे'ति श्रुतिः, तथासन्मतेपीति तौल्यात् । एकदेशिमते- ऽरूपवत उत्पत्तिर्नैयायिकयुक्तिविरुद्धेति 'नैषा तर्केणे'ति श्रुतेर्विरुद्धधर्माश्रयत्व इव प्रवृत्तेः तस्यैकदे- शिमतस्याप्यादरणम् । श्रुत्यर्थस्तु । बहुभिरन्याचार्यग्रन्थैरपि । आश्चर्य इति । आश्चर्य सति वक्तति वचनप्रयोजक आश्चर्य एव वक्ता आश्चर्यवसो वा ब्रह्मरूपः तत्र प्रविष्टः । अर्शाआद्यजन्तो वा । अनुशिष्टः दत्तात्रेयवद्धूर्वनुशिष्टः । अवरः जगद्रूपः न सुविज्ञेयः, किन्तु भगवान् सुविज्ञेयः । जगत्तु तज्जलान्त्वेन । अनन्येति । अपृथग्दर्शनेनाचार्येण प्रोक्ते आत्मगतिरन्यत्र परब्रह्मणि नास्ति । यतोऽणीयान् 'अणुः पन्था विततः पुराणः' इति द्वितीयाध्याये चिन्तितम् । नहि अतर्क्यम् । 'अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । तपसा वेद्युत्त्या तु प्रसादात्परमात्मनः' इति श्रुतेर्नहि अतर्क्यम् । अणु ब्रह्म प्रमाणं प्रमाणप्रेरकत्वेन मुख्यत्वात् । अन्येनेति । आगमाभिज्ञेनाचार्येण गतिम् । त्वादिति । त्वत्सदृशः । शं कल्याणम् । सोः शेः । इतिहेतोः । अध्रुवैः साधनैरिति । अयमिति । विरुद्धधर्माश्रयपक्षः । पश्चात् एकदेशिमतात्पश्चात् । पूर्वत्रेति । एकदेशिमते । उत्पत्त्येति । विरुद्धधर्मोत्पत्त्या । पूर्वसूत्रे प्रकाशाश्रयवत्सूत्रे । व्याख्योक्तेति । कल्पनायामपीत्यादिव्याख्योक्तप्रकारिकया । उपपत्येतिभाष्यं विवृण्वन्ति स्म तयोरिति । पूर्वनयनमिति । पूर्वस्य पक्षस्य नयनम् । एवेति । अन्ययोगव्यवच्छेदकः । कथनेनेति । अनुच्छित्तिर्धर्मो यस्येति विग्रहे पुनरुक्तिरतो न उच्छित्तिर्नाशो येषां तेऽनुच्छित्तयः अनु- च्छित्तयो धर्मा यस्येति विग्रहात्तथा । स्वरूपेति । स्वरूपं च धर्मश्च तयोः । एतदादयो हेतवः । स्वसिद्धान्त इति भाष्यविवरणस्य व्यासचरणानां सिद्धान्त इति ग्रन्थस्य । सत्यपदेपीति । अपिना मूर्तामूर्तब्राह्मणीय- 'प्राणा वै सत्यं तेषामेष सत्य' मित्युक्तसत्यपदे । 'सत्यस्य सत्य' मिति ब्रह्मस्तुतौ । नामधेयं स्वरूपलक्ष- णस्थम्, निर्वचनं ब्रह्मस्तुतिरूपम्। यद्यपि नामधेयं त्रैकालिकाबाधविषयम्, तथापि विरुद्धधर्माधारत्वायाहुः मूलेति । मूलसद्रूपपदत्वं मूलत्यरूपपदत्वं तयोः । सन्मूर्तं त्यममूर्तं मूर्तामूर्तब्राह्मणे स्फुटं । ईश्वरत्वेति । श्रुत्यर्थस्तु प्रपञ्चस्योपशमो यत्रेति निर्धर्मकम्। पूर्वोक्तं प्राज्ञं ईश्वरं ग्रसतीतीश्वरग्रासः कर्मण्यण् । ओतत्वे- नेश्वरग्रासत्वमनुज्ञातृत्वेन स्वराट्त्वमनुज्ञात्वेन स्वयमीश्वरत्वमिति सधर्मकम् । अनन्तरूपमिति । व्यक्तम् । श्रुतीरुक्त्वोपबृंहणमाहुः द्वितीयस्कन्ध इति । भगवदिति । आदिनैकरूपत्वालक्ष्यत्वाविर्भावतिरोभा- १. आदर्शेषु एतत्त्वादिसप्रधर्मेति पाठः, काशीपुस्तके प्रपञ्चधर्मेति पाठः, मूलपुस्तके इदं नास्ति, अतोपेक्षितपाठो रक्षितः । मूलेऽभावाद्भ्रमो न विस्मृत इति । २० ब्र० सू० २० 1689