अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1812, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १५५ द्वितीयं प्रतिषेधति । स एवकारेणैव सिद्धो व्यर्थः सन् धर्मनिषेधमपि सूचयति । 'ऐक्षते'ति वचनात् तदुत्पत्तिः । चकारादेकविज्ञानेन सर्वविज्ञानोपक्रमः परिगृ- हीतः । तस्मान्न ब्रह्मणि कश्चिद्विरोध इति सिद्धम् ॥ ३० ॥ इति तृतीयाध्याये द्वितीयपादे नवमं प्रकाशाश्रयवद्भेत्यधिकरणम् ॥ ९ ॥ भाष्यप्रकाशः। त्यादि । स इति । द्वितीयनिषेधः । नन्वनुच्छित्तिधर्मेत्यादिना तन्नित्यत्वे कुतो निषेध इत्यत आहुः ऐक्षतेत्यादि । तथाचोक्तश्रुत्यनुरोधेन धर्मनित्यताबोधकश्रुतिरनुच्छित्तिर्धर्मो यस्येतिसमासेनावि- नाशिपदव्याख्यानपरतया नेयेत्यर्थः । स्फुटमन्यत् । नचैकदेशिमतस्य युक्त्यन्तरेणोपष्टम्भात् पूर्वमततुल्यत्वमस्य सूत्रकाराभिप्रेतमिति शङ्क्यम् । प्रतिषेधश्रुतेर्द्वित्वसंख्यापूरकनिषेधपरतायाः प्रागुपपादितत्वेन, 'सूर्य एकाकी चरती'तिश्रुतौ सप- रिकरे एव सूर्ये एकाकित्ववत् 'गेहे देवदत्त एवास्ति, न द्वितीय' इति लौकिकप्रयोगे करचरणा- दियुक्तदेवदत्ताद्वितीयत्ववच्चापि निषेधगतेः शक्यवचनत्वेन, अनुच्छित्तिधर्मपदस्याविनाशिप- दव्याख्यानताया अपि मानान्तरविरहादगतिकगतित्वेन च तस्य शैथिल्यात् । अत एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानुरोध एवैतत्संग्रहे बीजम् । एतस्योपष्टम्भकं च नैतस्मादन्यदिति बोधनायैवैतद्यु- क्तिकथनमिति बोध्यम् । तस्मान्न कोपि शङ्कालेशः । (ननु मतद्वयस्यापि सूत्रकारसम्मतत्वे स्वसिद्धान्त इति भाष्यस्थस्य स्वशब्दस्य सूत्रकार- परत्वेन व्याख्यानमनुचितम् । एकदेशिपदे च व्यासैकदेशित्वव्याख्यानमपि तथा । व्यासैस्तन्ना- मानुल्लेखादिति चेत् । मैवम् । एकदेशिपदेत्र व्यासस्यैकदेशी ग्राह्यः । अन्यथाम्बुवत्सूत्रेण 'अत एव'तिसूत्रसिद्धं दृष्टान्तं न दूषयेत् । वृद्धिह्रासादि Barclay सूत्रद्वये युक्त्यन्तरं च न वदेत् । एकदेशिनामानुल्लेखस्तु जैमिन्या- दिवदप्रसिद्धत्वात् । 'जीवमुख्यप्राणलिङ्गा'दित्यादिपूर्वपक्षिनामवत् । अस्मिन् सूत्रे जघन्यानामर्थेऽस्य सद्भावाद्वा । अथवा । जीवप्रसङ्गे 'अवस्थितेरिति काशकृत्स्न' इति काशकृत्स्नेन जीवस्य ब्रह्मावस्थाविशेषत्वेनाङ्गीकारात् तस्य न्यायस्यापि तुल्यत्वात् स एवैकदेशी ग्राह्यः । अत एव द्विती- यस्कन्धपञ्चमाध्याये सृष्टिप्रकरणे 'सत्त्वं रजस्तम' इत्यस्य सुबोधिन्यां 'काशकृत्स्नमतमत्र सिद्धं भविष्यती'त्याचार्यैरपि तथाङ्गीकारः कृत उत्पत्त्या विमर्शविचारे इति नात्र शङ्कालेशः । एवमेक- देशिनि निर्णीते स्वशब्दो व्यासपर एव युक्त इत्यत्राप्यदोषः । नचास्य पश्चात् कथनेनास्यैव मुख्य- त्वमिति शङ्क्यम् । द्वितीयस्कन्धे 'इत्थंभावेन कथितो भगवान् भगवत्समाः । नेत्थं भावेन हि परं ब्रह्मार्हन्ति सूरय' इत्यादिभिरेतदसमुख्यतयाः शुकवाक्ये व्यासचरणैरेवोक्तत्वात् । एतस्य रश्मिः। श्रुतिरद्वितीयमितिश्रुतिस्तस्याः । द्वित्वेति । द्वितीयमित्यत्र पूरणार्थकप्रत्यय इति भावः । प्रागिति । सपरीति । चरणादिः परिकरः । श्रौतत्वादेवकारः । एवेति । अन्ययोगव्यवच्छेदकः । निषेधगते- रिति । अद्वितीयश्रुत्युक्तायाः । तस्येति । एकदेशिमतस्य । एवेति । अन्ययोगव्यवच्छेदकः । एतत्संग्रहे एकदेशिमतसंग्रहे । एतस्मादिति । प्रतिषेधसूत्रादित्यर्थः । एवकारोऽन्ययोगव्यवच्छेदकः । (ए)तद्युक्तीति । एकदेशिमतयुक्तिकथनपनेन सूत्रेणेत्यर्थः । शङ्केति । एकदेशिमतोपपत्त्यनावश्यकत्वशङ्का तस्या लेशः । १. अधिकरणादिसार्थः । 1691