अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1819, कुल 2600 में से
संदर्भ में पढ़ें१६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ९ सू० १०. भाष्यप्रकाशः। द्वैताभिधायिनीनां तत्तल्लयपरत्वम् । तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सत् ब्रह्म परमार्थतः । विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादर्ता इति सिद्धमिति । तदप्यसङ्गतमेव । ब्रह्मणः परिणामिभावस्य श्रुतिषु सूत्रेषु च प्रतिषेधादर्शनात् । 'बहु स्यां प्रजायेये'ति, 'स आत्मानं स्वयमकुरुते'त्यादिश्रुतिषु, 'आत्मकृतेः परिणामा'दित्यादिषु सूत्रेषु च तद्विपरीतस्य विधानस्यैव दर्शनाच्च । नच वाचारम्भणवाक्यं विकारस्य वाङ्मात्रताकथनमुखेन तद- भावमेव बोधयत् प्रतिषेधतीति शक्यवचनम् । तत्र तत्कथनमुखेन कारणाभिन्नत्वबोधनस्यैव भग- वता सूत्रकारेणादृततया स्वयमन्यादर्तुमयुक्तत्वात् । तदनादृत्यादरे तु 'वाचारम्भणं विकारो मृत्तिकैव सत्य'मित्येतावत्तैव चारितार्थ्येन, इतिशब्देनामधेयपदयोर्वैयर्थ्यस्य दुर्वारत्वमित्यादिकं तदनन्यत्वसूत्रभाष्यविभागे एव विवृतमिति न पुनः प्रपञ्च्यते । अतो निर्विशेषप्रतिपादनार्थत्वं यच्छ्रुतीनामङ्गीकृतम्, तदप्यभिमानमात्रमेवेति प्रागेवोपपादितम् । एकत्वनानात्वयोरेकत्रासम्भ- वस्तु 'इदं सर्वं यदयमात्मा' 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दित्यादिश्रुतिभि- रेवोदस्त इति तस्य निर्विशेषतासाधनादरः श्रुतिप्रद्वेषादेव । एकत्वाङ्गत्वेन नानात्वप्रतिपादनं त्विष्टमेव, परन्तु तन्न नानात्वस्यापोद्यत्वाय, अपि त्वभेदस्य भेदविरुद्धसम्पत्त्वबोधनायेत्यप्युक्तं पूर्वम् । नानात्वस्य प्रमाणान्तरसिद्धत्वं तु लौकिकस्यैव, न तु ब्रह्मधर्मभूतस्यैकत्वाविरोधिनः । तादृशस्य रश्मिः। अन्येति । चक्षुर्विद्येत्यात् । तथाच नार्थवादत्वमिति भावः । तस्येति । नानात्वस्य । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण' इति श्रुत्या तस्य भेदस्य प्रलयपरत्वम् । 'प्रज्ञां कुर्वीते'त्यस्य दृशिमात्रं ब्रह्म कुर्यात्प्रपञ्चप्रविलायनेनेत्यर्थात् । उपाधीत्यादि । अन्यत्राप्रसिद्धानामप्य- स्तत्वं भ्रमात् । इत्यादिष्विति । सूत्राणि तु समन्वयादिलादीनि द्रष्टव्यानि । तद्विपरीतस्य प्रतिषेधविपरीतस्य । एवेति । प्रतिषेधयोग्यव्यवच्छेदक एवेति । तदभावमेवेति । परिणामिभावस्य प्रतिषेधम् । एवकारोऽन्ययोग्यव्यवच्छेदकः । प्रतीषेधतीति । ब्रह्मणः परिणामिभावं प्रतिषेधति । एवेति । स्वसिद्धान्तभाष्यादेवकारः । तदिति । भाष्यम् । तदनन्येति । विभागो व्याख्यानम् । एवकारोऽन्ययोग्यव्यवच्छेदकः । एवेति । नतु युक्त्यन्तरदूषणेन प्राप्तम् । प्रागेवेति । तदनन्यत्वा- धिकरणे । एवकारोधिकरणान्तरयोग्यव्यवच्छेदकः । एषोदस्त इति । निर्धारणेनोदस्तः । एकात्मत्व- विधानेन तमःपरत्वेन चोदस्तः । श्रुतिप्रेति । श्रुतीनामक्षरमात्रान्याथाप्रतिपादकत्वेन विरुद्धधर्मा- श्रयत्वे लोकविरोधाल्लोकेषः, आलोचनयुक्त्यभावात्, दुरूह जिज्ञासोदयात् । अनुभवादेवकारः । इष्ट- मेवेति । नानात्वं विना सात्त्विकज्ञानेनैकत्वज्ञानानुदयादिष्टम् । एवेति । एकत्वस्याष्टादशाध्यायगी- तयोपबृंहणादेवकारः । विरुद्धधर्माधारप्रकरणादाहुः परन्त्विति । तन्नेति । एकत्वं न । अभेदस्य एकत्वस्य भेदो नानात्वं तद्विरुद्धत्वसम्पत्त्वबोधनाय । पूर्वमिति । प्रकाशाश्रयवत्सूत्रे । प्रमाणान्तरेति । प्रत्यक्षसिद्धत्वम् । एवकारव्यवच्छेद्यमाहुः नत्विति । तादृशस्येति । नानात्वस्य । तादृशशब्दो रूढः । अवयवार्थो नास्ति । कुत्र रूढ इति चेत् । तत्पूर्वोक्तमेकत्वाविरोधिृत्वं दृश्यते यत्र तत्र । योग इति चेत्, वैदिकेस्तु, तल्लोके रूढ्यर्थं गृह्यते । योगस्तु तमिवेमं पश्यन्ति जना इति । बहुव्रीहिप्रसङ्ग इति चेत्, १. मुद्रितभामत्यामप्यस्ता इति पाठ उपलभ्यते, श्रीहस्ताक्षरपुस्तके तथैव केश्वित् शोधितः, तथापि भाष्यप्रकाशका- राणां त्वयमेव पाठः संमत इति 'विशेषाणामस्ताते' तिफक्किकया प्रतिभाति, अतो यथोपलब्ध एव पाठोत्रावृत इति । खार- स्वस्य तस्मिन्नेव रक्षणादिति । 1698