अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1821, कुल 2600 में से
संदर्भ में पढ़ेंपरं रूपममूर्तरसभूतपुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् । तदेतत् सप्रपञ्चं ब्रह्मणो रूपं सन्निहितालम्बनेनेतिकरणेन प्रतिषेधकेनञ् प्रत्युपनीयत इति गम्यते । ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन् ग्रन्थे, न तु स्वप्रधानत्वेन । प्रपञ्चिते च रूपद्वये रूपवतः स्वरूपजिज्ञासायामिदमुपक्रान्तं 'अथात आदेशो नेति नेती'ति । तत्र कल्पितरूपप्रत्याख्या- नेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते । नच स्वरूपद्वयं स्वयमेवोक्त्वा स्वयमेव निषेधे 'प्रक्षा- लनाद्धि पङ्कस्ये'ति न्यायेनाकथनमेव युक्तं स्यादिति शङ्क्यम् । एतस्य रूपद्वयस्य लोकप्रसिद्धस्य ब्रह्मणि कल्पितत्वेन प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च तत्परामर्शेन कथनस्य युक्त- त्वात् । द्वौ चैतौ निषेधौ यथासंख्यं मूर्तामूर्ते प्रतिषेधतः । यद्वा । पूर्वप्रतिषेधो भूतराशिं निषेधति, उत्तरस्तु वासनाराशिम् । अथवा, 'नेति नेती'ति वीप्सा । तत्र 'इती'ति यावत्किञ्चिदुत्प्रेक्ष्यते, तत्सर्वं 'ने'त्यनेन निषिध्यते । परिगणितनिषेधे हि क्रियमाणे यदि नैतद्ब्रह्म, किमन्यत् ब्रह्म भवे- दिति जिज्ञासा स्यात् । वीप्सायां तु सत्यां समस्तविषयजातस्य प्रतिषेधाद् अविषयः प्रत्यगात्मा विराडात्मा एतच्चाधिदैविककारणात्मकस्य ब्रह्मणो रूपम् । निश्चयपूर्वकं पुनराह त्यस्य ह्येष इति । त्यमित्युक्तस्य हि निश्चयेन एष रसः रसशब्दप्रतिपाद्यः सारः वासनेत्यावृत्तिः । एवमुक्तमाधिदैविकं विभागमुपसंहरति स अधिदैवतमिति । लिङ्गात्मेति । 'तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्५ सकृद्विद्युतेव ह वा अस्य श्रीर्भवति य एवं वेदे'ति श्रुतिः । अत्र तस्याधिदैविकस्य ह एतस्याध्यात्मिकस्य लिङ्गपुरुषस्य आत्मनीत्यध्यात्मं तत्सम्बन्धिन इत्यर्थात् । मनसो वासनामयं रूपम् । यथा लोके महारजनं हरिद्रा तया रक्तं माहारजनं वासः वस्त्रम् । 'तेन रक्तं रागादि'ति सूत्रेणाण् । एवं रूपादिविषयसंयोगे सति । तादृशं रञ्जनाकारमुत्पद्यते । तथा चावेरिदमाविकम् । ऊर्णादि यत्पाण्डुरम् । तथान्यद्वासनारूपं लिङ्गस्य जायते । तथा चेन्द्रगोपः वर्षाकालीनकीटविशेषः कौसुम्भवदत्यन्तरक्तो भवत्येवमेवास्य वासणारूपम् । यथाचाग्न्यर्चिर्भास्वरं भवति, तथा कचित्कस्यचिद्वासनारूपम् । यथाच पुण्डरीकं शुभ्राम्भोजं तद्वदपि कचित्कस्यचिद्वासनारूपं भवति । यथाच सकृद्विद्युतं विद्योतनं सर्वतः प्रकाशकं भवति । यथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचिद्धिरण्यगर्भादेर्वासनारूपमुपजायते । सत्त्वा- दितारतम्यादित्यर्थः । चरमोक्तहिरण्यगर्भवासनारूपोपासनफलमाह सकृदिति । एवं यथोक्तमत्यन्तं हिरण्यगर्भवासनारूपं यो वेद अस्योपासकस्य सकृद्विद्युतेव विद्योतनमिव श्रीः शोभा ख्यातिर्भवति । ह वै भवत्येवेत्यर्थः । तदेतदुक्तं लिङ्गात्मेत्यारभ्य दर्शितमित्यन्तेन । 'अथात आदेशो नेति नेती'त्यस्या र्थमाह तदेतदिति । सन्निहितं मूर्तामूर्तं आध्यात्मिकमाधिदैविकं च तेषामवलम्बनं ग्राह्यं प्रतिपाद्यं यस्येतिकरणस्य तेन । प्रतिषेधकेति । प्रतिषेधकं नञ् प्रतिषेधकनञ् तं प्रति प्रतियोगितासम्बन्धेनो- पनीयते प्राप्यते । 'द्वे वा व ब्रह्मणो रूपे' इत्यत्राह ब्रह्म त्विति । ब्रह्मसम्बन्धिनी रूपे इति रूपविशे- षणत्वेन । ग्रन्थे श्रुतौ । रूपवत इति । ब्रह्मणः । स्वयमेवेति, नतु 'तदेषाभ्युक्ते'तिवदन्यमुखेन । एवमग्रेपि । प्रक्षालनेति । 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर'मितिन्यायेन । एवेति । कथन- योग्यव्यवच्छेदकः । परीति । परिगणितानां वस्तूनां मूर्तामूर्ताधिदैवताध्यात्मिकानां निषेधे । एतदिति । वासनामूतम् । अविषयः स्वयंप्रकाशः । 'प्रकृतैतावत्त्वं हि प्रतिषेधती'ति व्याकृत्य 'ततो ब्रवीति च १. मूले रश्मौ च प्रतिषेधकनमिति पाठः, मुद्रितपुस्तके प्रतिषेधकमनमिति ।