अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1855, कुल 2600 में से
संदर्भ में पढ़ेंपठिता भवेयुः, तदा न विचारणीया भवेयुः, विरोधाभावात्। पठिताश्च तत्तदुपास- नप्रकरणेषु, क्वचित् त एव, क्वचित् भिन्नाः। यथा वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमन्यमग्निं पठन्ति । 'तस्याग्निरेवाग्नि'रिति । छन्दोगास्तु पञ्चसंख्ययैवोपसंहरन्ति । भाष्यप्रकाशः। विरोधाभावान्न विचारणीया भवेयुः । पठितास्तु न सर्वे एकत्र, किन्तु तत्तत्प्रकरणे क्वचित् एव, क्वचिद्भिन्नाः । यथा पञ्चाग्निविद्यायामभ्यन्तरांशे त एव, षष्ठस्त्वधिक इति भेदः । प्राणविद्यायामन्ये प्राणास्त एव, रेतस्तद्भिन्नामिति । एवं सत्यब्रह्मविद्यायां व्याहृतिशरीरांशे तौल्यं स्थानभेदेनाहरि- त्यहमित्युपनिषदोर्भेद इति । तथाच तादृशपासनासूपास्यविशेषणत्त्वादिना ब्रह्मपदस्यानुक्तत्वात् तेषां तद्धर्माणां च ब्रह्मत्वे ब्रह्मधर्मत्वे च सन्देहाद्विचारणीयाः । पा