भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1858, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1858

क्वचिदुरुक्रमादिरूपं च निरूप्यते। तथाच द्रव्यदेवताभेदात् यागभेदवद्धर्माणाम- वापोद्वापाभ्यां दृष्टादृष्टफलभेदाच्च वेद्यभेदे प्राप्ते ब्रह्मानेकत्वापत्तौ श्रुतिविरोधात् विनिगमकाभावात् सर्वेषामुपासनाविषयाणामब्रह्मत्वमापतितम्। भाष्यप्रकाशः। दात्मरूपं शिवरूपमन्यच्च तत्र तत्रोक्तं रूपान्तरं संगृह्यते। चकारेण तत्र तत्रोक्तविभूतिरूपसंग्रहः। तथाच श्रुतौ ब्रह्मणो नानारूपनिरूपणात् तेषु किं समानत्वम्, उत कस्यचिच्छीघ्रं फलदातृत्वेन सुगमोपायैः फलदत्वेन परमदयालुत्या जीवापराधनिवारकत्वेनाधिक्यमिति सन्देहानपायात्तदर्थं विचार आवश्यक इत्यर्थः। एवमत्र विषय उक्तः। तथाच पूर्वत्र ब्रह्मप्राधान्येन विचारः, अत्र ब्रह्मरूपप्राधान्येनेति विशेषः। संशयं व्युत्पादयन्ति तथाचेत्यादि। तथा तेन धर्मभेदप्रकारेण द्रव्यदेवताभेदा

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1858, कुल 2600 में से · BharatKosha