भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1885, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1885

९२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १ सू० ४. दर्शयति च ॥ ४ ॥ वेद्यैकत्वेन विद्यानामेकत्वं श्रुतिर्दर्शयति 'सर्वे वेदा यत्पदमामनन्ति'त्यादिना। उपासनाप्रकारभेदेनोपास्यभेददर्शने दोषं च दर्शयति । 'यदा ह्येवैष एतस्मिन्नु- भाष्यप्रकाशः। दर्शयति च ॥ ४ ॥ अस्मिन्नधिकरणे सर्वफलदातुः परब्रह्मणो वेद्यस्य तद्विषयकत्या सर्वासां विद्यानामैक्यमवान्तरविद्यानामवान्तरैक्यं च प्रतिपादितमिति निगमयितुं सूत्रं विवृण्वन्ति वेद्यैकत्वेनेत्यादि । इत्यादिनेति । आदिपदेन मुण्डके ब्रह्मविद्यां प्रक्रम्य, तस्यामेव परापरवि- भागमुक्त्वा, ऋग्वेदादिरूपा अपरा, 'अथ परा यया तदक्षरमधिगम्यत' इति तयोर्लक्षणकथनेन सर्वासां ब्रह्मविद्यात्वं यद्बोधितं तस्य सङ्ग्रहः । तथान्यैरुपन्यस्तानां 'एतमेव बह्वृचा महत्युक्थे मीमांसत एतमग्नावध्वर्यव एतं महाव्रते छन्दोगा' इत्यादीनां च सङ्ग्रहः । तथाच श्रुतिरपि प्रत्यक्षा वेद्यैकत्वेन विद्यैकत्वं दर्शयति, उपास्यभेददर्शने च दोषम्, अतोपि निष्प्रत्यूहं ब्रह्मण- स्तद्विद्यानां च सर्ववेदान्तप्रत्ययत्वमित्यर्थः । अत्र आद्या श्रुतिः काठकेऽस्ति । 'अन्यत्र धर्मादन्यत्राधर्मा'दिति प्रश्नमुपक्रम्य, तदुत्तरत्वेनोक्ता । तत्र च सर्ववेदबीजभूतो य ॐकारः, तस्य तथात्वमुक्तम् । स च 'ओङ्कारो ब्रह्मणः साक्षाद्वाचक' इति प्रश्नोत्तरसिद्धिः । तथाचोङ्कारस्य सर्ववेदबीजत्वात् तदर्थस्यैव सर्वत्र प्रसृतत्वात् सर्वस्यापि वेदस्य तद्वाचकत्वमिति वेद्यैक्येन विद्यैक्यं सिद्धम् । द्वितीया तैत्तिरीयाणां ब्रह्मवित्प्रपाठकेऽस्ति । तत्र हि 'अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने' इति विशेषणचतुष्टयविशिष्टं ब्रह्म 'एतस्मि'न्निति‍पदेन परामृश्यते । तथाच यच्चाक्षीयसाधनमन्त- रेणादृश्यम्, यस्य चात्मान्यो नास्ति, किन्तु तदेव सर्वासामात्मभूतमित्यनात्म्यम् । यत् पुनरेतदग्रे 'तस्यैव भयं विदुषोऽमन्वानस्ये'त्यनेन यः पूर्वोक्तरूपं ब्रह्म युक्तिभिर्नानुचिन्तयति, तस्यापि रश्मिः। ब्रह्मणो निष्प्रत्यूहमित्यर्थः । न च 'अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्य'मिति काठके श्रावणान्न स्वारस्यं नेति वाच्यम् । 'नास्ति श्रुतिषु तद्वार्ते'ति मायानिषेधात् । 'स ईक्षां चक्र' इतीक्षामात्रश्रावणात् । न च 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर'मिति 'मायया संनिरुद्धः' 'विष्णुर्नाम महायोगी महामायो महातपाः' इत्यादिश्रुतिभिर्मायोक्तेरिति शङ्क्यम् । 'प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिन' इति गोपाल- तापनीयात् प्रकृतिः 'प्रकर्षेण नवीनभावजनक' इत्यादिगायत्र्यर्थविवरणकारिकोक्तलक्षणा इन्द्रिय- मावजनिका तथा विशिष्टं मायिनं महेश्वरम् । महामायो महेन्द्रियावी विष्णुः । मायया संनिरुद्धो जीव इत्यर्थान्तराभावात् । गोविन्द इत्यर्थः ॥ ३ ॥ दर्शयति च ॥ ४ ॥ पूर्वं चोदनाद्यविशेषहेतुं शोधयित्वा द्वितीयेन तृतीये शिष्टाचारप्रकरणे 'योऽन्यथा सन्त'मिति श्रुतीनामुपसंहारबाधकत्वमाशङ्क्य समाहितम् । अर्थाभेदसोपसंहारसाधकत्वं वक्ष्यते । एवं च साधकस्य विद्यमानत्वाद्द्वेद्यैकत्वेनेत्यादिर्भाष्ये । बाधकानि तु गुणभेदस्याप्रयोजनकत्वान्न सन्ति । आदिपदार्थमाहुः आदिपदेनेति । परापरेति । 'द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्म- विदो वदन्ति । परा चैवापरा चे'ति श्रुत्या परापरविभागमुक्त्वा । सङ्ग्रह इति । श्रुत्यर्थस्तु एतं सर्ववेदान्तप्रत्ययत्वेन विहितम् । बह्वृचशाखिनः उक्थे शस्त्रविशेषे । विचारयन्ति । एवमग्रेपि । छन्दोगा सामशाखा । आदिना वैश्वानरविद्या । वाजसनेयके प्रादेशमात्रसम्पादितस्य वैश्वानरस्य छान्दोग्ये सिद्धवदुपादानम् । 'यस्त्वेवमेतं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त' इति । प्रत्यक्षा वेद्येति । 1760