अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1903, कुल 2600 में से
संदर्भ में पढ़ें१४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १ सू० १०. ननु ब्रह्मधर्मत्वेन ते सर्वे नित्या वाच्याः, ते च तत्तद्रूपविशिष्टाः, तत्र नैक- स्यैव भक्तस्य पौर्वापर्येणानेकलीलासम्बन्धित्वं श्रूयते, तथाच पूर्वलीलाया नित्य- त्वेन तत्सम्बन्धिभक्तस्यापि तथात्वं वाच्यम्, एवं सति तस्यैवाग्रिमलीलासम्ब- न्धोऽशक्यवचनः, तथा वचने तु पूर्वलीलाया नित्यत्वं भज्येत, नित्यत्वे त्वग्रिमली- लासम्बन्धिनो भिन्नत्वं स्यात्, तच्चानुभवतद्भावेदकमानविरुद्धमित्यत उत्तरं पठति ! सर्वाभेदादन्यत्रेमे ॥ १० ॥ लीलामध्यपातिनां सर्वेषां पदार्थानां ब्रह्मणा सहाभेदात् ब्रह्मणश्चैकत्वात् भाष्यप्रकाशः । अग्रिमसूत्रमवतारयन्ति नन्वित्यादि । 'अनुच्छित्तिधर्मे'तिश्रुत्या ब्रह्मधर्माणामनुच्छेदश्रा- वणाद्ब्रह्म