भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1915, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1915

३५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १ सू० १५. भाष्यप्रकाशः। संहारस्य प्रियशिरस्त्वादीनां व्यवस्थयोपसंहारस्य च निर्णयात्, सर्वप्रपञ्चातीतः सर्वमुपसंहृत्यैवमेकः कारणरूपश्च भवति, प्राणाख्यां च कलां सृजत इति बोधितम् । शङ्कराचार्यास्तु, अन्यथात्वादित्रिसूत्रेऽधिकरण उद्गीथविद्याम्, व्याप्तश्चेत्येकसूत्रेऽधिकरणे च तदीयशेषम्, सर्वाभेदेत्येकसूत्रे च प्राणविद्याम्, आनन्दादय इति सूत्रे च ब्रह्मधर्माणामेवोप- संहारानुपसंहारौ विचार्य, आध्यानादित्येकसूत्रे 'इन्द्रियेभ्यः परा ह्यर्था' इत्यादिके, 'सा काष्ठा सा परा गति'रित्यन्ते काठकवाक्येऽर्थादीनां तत्तस्ततः परत्वप्रतिपादने प्रयोजनाभावात्, 'सा काष्ठा सा परा गति'रित्यनेन पुरुषविषयकादरप्रदर्शनाच्च तस्यैव परत्वं प्रतिपाद्यत इति सिद्धान्तमाहुः । भास्कराचार्या अप्येवमेव वदन्ति । तत्र परविद्याविचारं विहाय प्रथमत एवोद्गीथप्राणविद्याविचारे बीजं न पश्यामः । युक्तं तु परविद्यासु विचार्यमाणास्वानुषङ्गिकी तद्विचारस्यापि सिद्धिरिति । अतीतपादान्ते ब्रह्मण एव धर्माण विचारात् । समन्वयेऽपि पूर्वमानन्दवाक्यान्येव विचार्य पश्चात् प्रतीकवाक्यविचारादिति । एवमाध्यानाधिकरणविषयवाक्येऽपि अर्थादीनामिन्द्रियादिभ्यः परत्वप्रतिपादनं न निष्प्रयोजनम् । तत्तत्फलितताप्रतिपादनस्यैव प्रयोजनत्वात् । अन्यथा विषयत्यागेन्द्रियनिग्रहयोरनास्थायां 'इन्द्रियै- रश्मिः। समानं च । अन्यथात्वादितिसूत्र्योपसंहारस्य प्रयोजनं तादृक् तादृग्गुणविशिष्टत्वेनोपासनम् । एवमुप- संहारहेतुप्रयोजनयोरित्यर्थः । 'व्याप्तेश्चे'ति द्वाभ्यां सूत्राभ्यां परविद्यास्वक्षराधिगमयित्रीषु उपासनाबाधकं पौगण्डादिकम्, तस्य परिहारः 'सर्वतः पाणिपादान्त'मितिश्रुतेः 'साकारमेव व्यापक'मिति । तस्य । किंच द्वितीयसूत्रे तद्व्यवस्था तयोर्नित्यत्वभङ्गानुमततदावेदकमानविरोधयोर्व्यवस्था, सर्वाभेदाव्यवस्था । एवं तद्बाधकपरिहारतद्व्यवस्थयोरित्यर्थः । आनन्दादय इति सूत्रार्थ आनन्दादीनामिति । प्रियेति सूत्रार्थमाहुः प्रियशिरस्त्वेति । व्यवस्थयोपसंहारस्य चतुःसूत्र्या च निर्णयादित्यर्थः । अधिकरण- समाप्तावानन्दमयसोक्तेः भक्तिविषयस्य जगत्कर्तृत्वमाहुः सर्वप्रपञ्चेति । 'असद्वा इदमग्र आसी'- दित्यत्रेदन्धर्म्यो जगतस्सत्त्वेनोक्तेः । 'आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्ती'ति श्रुतेः । प्राणाख्यामिति । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे'ति श्रुतेः । भाष्य आनन्दमयादीनां निरूपणात् उपासनाप्रकरणाच्चानन्दमयादिशिरः- पुरस्कारेण निरूपणं प्रियशिरस्त्वादिसूत्रात्कृतम्, न त्वात्मपुरस्कारेण । उपासनायामात्मनोऽदृश्यत्वात् । तत्र प्रथमाधिकरणे प्रियकला तदादिसृज्यत्वेन प्राणकला प्राणमयशिरः । यद्यपि भाष्ये आनन्दमया- दीनां निरूपणम्, न शिरोमात्रस्य निरूपणम्, तथापि प्रियशिरस्त्वादिसूत्रे शिरोमात्रग्रहणसूचितशिर- आदिध्यानम् । एकैकाङ्गध्यानस्य 'आध्यानाये'ति सूत्रे सिद्धत्वात् । तेनान्नमयादिपञ्चापि ज्ञेयाः । अत्र पदार्थसंगमनाय आनन्दमयस्य प्राणधर्मो विचारितः, प्राणमय इति तैत्तिरीये उपसंहृतानन्दमयो- पासना । वेदे 'वायुर्वै क्षेपिष्ठा देवते'त्युक्तेः । 'त्वमेव प्रत्यक्षं ब्रह्मासी'ति तैत्तिरीये । अतो वेदोक्तधर्म- वत्त्वेनोपासना कार्या । कलापदान्मुक्ता प्राणकला स्मृतानन्दमयप्रसङ्गेन प्राणमयः तत्सङ्गेन प्राण- कलेति । तदीयेति । 'ॐमित्येतदक्षरमुद्गीथमुपासीते'त्यत्राक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे शेषं विशेषणपक्षम् । युक्तेति । 'पुरुषात्न परं किञ्चित्सा काष्ठे'त्यादिना पुरुषविषयेत्यादिः । ननु परस्य शाब्दापरोक्षविषयस्य विद्याविचार इत्यत आहुः अतीतेति । तथाच धर्मद्वारिकैव परवि- द्येति भावः । समन्वय इति । प्रथमाध्याये पञ्चमाधिकरण आनन्दवाक्यानि । पश्चादिति । 1790