अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1920, कुल 2600 में से
संदर्भ में पढ़ेंतत्तथात्वेन स्तूयत इति वाच्यम् । श्रुतेः प्रतारकत्वापत्तेः । आनन्दमयान्नमेवमेव निरूपणाच्च । अत एवास्याप्यात्माग्रे निरूपितो 'यः पूर्वस्ये'ति । स त्वाधिदैविक आनन्दमयः । भूतानि सततं व्याप्नोती'त्यन्नमिति भूतव्याप्तिबोधकं निर्वचनं ब्रूयेत् । नापि 'अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत' इति निरुच्यात् । प्रयोजनाभावात् । एवं सत्यपि यदेवं पुनर्निर्वक्ति, तेन पूर्वोक्तात् कार्यरूपादन्नादेतं व्यवच्छिनत्ति । अग्रिमप्रपाठके ब्रह्मात्मकेन तपोरूपेण साधनेन तस्मिन् ब्रह्मत्वेन ज्ञानं भृगोर्वक्ति, न तु साधनं विना । तेनास्यान्नस्य पूर्वस्माद्वैलक्षण्यमवश्यं वक्तव्यम् । मैत्रायणीये 'विश्वभृद्वै नामैषा तन्ूर्भगवतो विष्णो'रिति भगवत्तनुत्वश्रावणात् । बृहन्नारायणोपनिषदि चान्नमधिक्रम्य 'स वा एष पुरुषः प