अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1940, कुल 2600 में से
संदर्भ में पढ़ेंन्यायाद्देवान्तेषूपास्यं ब्रह्मातिरिक्तं नोच्यत इत्यासन्योऽपि ब्रह्माभिन्नः, अत एव 'अपहतपाप्मा ह्येष' इति सामगैः पठ्यते । अतस्तन्न न पाप्मवेध इति भावः । ब्रह्मणः स्वतन्त्रपुरुषार्थत्वज्ञापनायार्थपदेनोक्तिः । एतेन विभूतिरूपेऽपि यत्रैवम्, तत्र मूल- भूतब्रह्मणि निर्दोषत्वं किं वाच्यमिति ज्ञापितम् । अथवा, अर्थः प्रयोजनं विषय इति यावत् । तद्भेदादित्यर्थः । अत्रेवमाकूतम् । देवा हि स्वस्यासुरजयाय गानार्थं वागादीनूचुः 'त्वं न उद्गाये'ति गानान्तरं 'यो वाचि भोगस्तं देवेभ्य आगाय'- दित्युच्यते । एवमेव प्राणादिष्वपि 'स्वस्यभोगं देवेभ्य आगाय'दिति । एवं सति भाष्यप्रकाशः । ब्रह्माभिन्न इति । उत्कृष्टतद्विभूतिरूपत्वात् तदात्मकत्योक्तः । उत्कर्षश्च पाप्मवेधाभावादेव गम्यते । एवञ्च 'मनो ब्रह्मेत्युपासीते'त्यादौ यत्तेषामुपास्यत्वेन विभूतित्वेपि नैतत्साम्यम्, तद्भगवता स्वसामर्थ्यस्य तत्र तारतम्येनैव स्थापितत्वादिति । यत् पुनर्वागादीनामुपास्यत्वं छान्दोग्ये प्रतीयते, तत्तु अप्रप्तानुवादरूपम्, न तु वास्तवम् । श्रुत्यनभिप्रेतत्वात् । उदवसानीयपशुक- पालवत् । तत्र निषेधेनैवात्र पाप्मवेधादेव तथा निश्चयात् । अतो न चोद्यावकाशः । ननु यदि वागादीनां ब्रह्मभिन्नत्वमेवमभिप्रेतम्, तदा सूत्रे ब्रह्मभेदादित्येवोच्येतेत्यत आहुः ब्रह्मण इत्यादि । ननु भवत्वेवमासन्योत्कर्षः, तथापि पूर्वप्रतिज्ञातस्याधिकरणप्रयोजनस्य कथमवगतिरित्यत आहुः एतेनेत्यादि । तथाच कैमुतिकन्यायादवगतिरित्यर्थः । नन्वर्थपदस्य वस्त्वर्थकत्वे उक्तमेव सिध्यति, तदनङ्गीकारे कथमेतदवगन्तव्यमित्यत आहुः अथवेत्यादि । रायभिधेयनिवृत्तीनामत्र प्रसङ्गाभावात् प्रयोजनमत्रार्थो ग्राह्यः । स चात्र वागादीनां विषयरूपः । तस्यैव देवार्थत्वेनोक्तत्वात् । अतस्तद्भेदादित्यर्थः । तदेतदुपपादयन्ति अत्रेदमित्यादि । उच्यत इति । बृहदारण्यके रश्मिः । प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ एष प्रणव ॐमिति ह्येष स्वरन्नेती'ति । अग्रे 'अथाध्यात्मं य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमित्येष स्वरन्नेती'ति । प्रणवशब्द्वाच्योपि कस्मात्, हि यस्मात् एष सविता ॐमिति स्वरन्नुच्चारयन् एति गच्छति । यद्वा । प्राणिनां प्रवृत्त्यर्थमोमिति स्वरन्ननुज्ञां कुर्वन्निव एति । स्पष्टमन्यत् । अत्र यद्यपि प्रणवोद्गीथयोरेकत्वोक्तिरिति व्याख्यातम्, तथापि भाविनीमाख्यां आदित्य उद्गीथरूपमादायोद्गीथस्थले आदित्यपदोक्तिः । एवमुद्गीथदृष्टिरित्यत्रादित्यदृ- ष्टिरिति व्याख्यानं द्रष्टव्यम् । 'असौ वा आदित्य उद्गीथ' इति श्रुतेः । भाष्ये । ब्रह्मातिरिक्त- मिति । ब्रह्म अतिरिक्तमिति छेदः । प्रकृते । उत्कृष्टेति । अन्येषामप्रत्यक्षत्वात् 'त्वमेव प्रत्यक्षं ब्रह्मासी'ति श्रुतेः प्रत्यक्षत्वादुत्कृष्टेति विशेषणम् । यद्यपि तथाप्याध्यात्मत्वात्पाप्मवेधाभाव उत्कर्षः । पाप्मा- वेध उत्कर्ष इत्याहुः उत्कर्ष इति । पूर्वेति । आभासे प्रतिज्ञातस्य । अधीति । निर्दोषत्वज्ञानस्य । वस्त्वर्थेति । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि'ति कोशात्तथा । उक्तमिति । ब्रह्मवार्थत्वेन सिध्यति । ब्रह्मातिरिक्तस्यावस्तुत्वात् । तदनङ्गीकार इति । सौत्रार्थशब्दस्य वस्त्वर्थकत्वानङ्गीकारे रायाद्यर्थाना मङ्गीकारे केन प्रकारेण एतद्ब्रह्मणो निर्दोषत्वमधिकरणप्रयोजनमवगन्तव्यम् । प्रयोजन- रूपार्थाभावादित्यर्थः । अरुचिर्नोक्ता । अस्याप्यर्थस्य विवक्षितत्वात् । रायभीति । रैश्च अभिधेयं च निवृत्तिश्च रायाभिधेयनिवृत्तयः तासाम् । अत्रेति । पूर्वव्याख्याने वस्तुरूपे । अत्रेति । द्विती- यार्थशब्दव्याख्याने । तस्येति । प्रयोजनरूपविषयस्यैव 'यो वाचि भोगस्तं देवेभ्य आगाय'दित्यादि- श्रुतिषु देवार्थत्वेनेत्यादिः । तद्भेदात् विषय रूपप्रयोजनभेदात् । प्रयोजनं फलं तदत्र विषयभोगः ।