भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1957, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1957

पन्नब्रह्मज्ञाने सत्येव मोक्ष इत्युच्यते । 'यमेवैष वृणुते तेन लभ्य' इति श्रुत्या आत्मी- यत्वेनाङ्गीकारात्मकवरणस्य भक्तिमार्गीयत्वात् तस्मिन् सति भक्तिमार्गे प्रवेशा- द्भक्त्यैव स इत्युच्यते । किञ्च । 'भक्त्या मामभिजानाती'त्युक्त्वा, 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तर'मिति भगवतोक्तमिति भक्तिमार्गेपि पुरुषोत्तमज्ञाने- नैव मोक्ष उच्यते, ज्ञानमार्गे त्वक्षरज्ञानेनेति विशेषः । 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति वचनेन भक्तिमार्गीयस्य ज्ञाननैरपेक्ष्यमप्युच्यते । तथाचैवं मिथः श्रुत्योः स्मृत्योश्च विरो- भाष्यप्रकाशः । पुरुषं महान्तमादित्यवर्णं तमसः परस्ता'दिति पूर्वार्धे एतं जगत्कर्तृतया पूर्वमन्त्र उक्तं महान्तं पुरुषं अहं वेदेति श्रुतिः स्वस्य ज्ञातृत्वमुक्त्वा, तत्स्वरूपमाह, तमसः अज्ञानात्मकस्य परस्तात् परम्, आदित्यवर्णम्, आदित्यस्येव मण्डलान्तःश्यामावदातो वर्णो यस्य, 'श्यामाच्छबलं प्रपद्ये शबला- च्छ्याम'मिति छान्दोग्ये श्रुतत्वात्तादृशम् । तथाचैतादृशश्रुतिभिः सत्यादिलक्षणकोक्तरूपब्रह्मज्ञानेन मोक्ष उच्यते, 'यमेवे'ति श्रुतौ तूक्तप्रकारेण भक्त्यैव स आत्मलाभात्मको मोक्ष उच्यत इति मोक्षार्थं ज्ञानभक्ती समुच्चेतव्ये, किं वा विकल्पयितव्ये इत्येकः संशयः । किञ्च, 'भक्त्या मा'मिति गीतायां पुरुषोत्तमज्ञानस्य, 'ब्रह्मविदाप्नोति पर'मिति श्रुतावक्षरज्ञानस्य च मोक्षहेतुत्वमुच्यते इति भक्तेन तदर्थं ते समुच्चेये, विकल्पनीये वेत्यपरः । नच विकल्पस्याष्टदोषदुष्टत्वात् समुच्चय एव युक्त इति वाच्यम् । 'तस्मान्मद्भक्ती'त्येकादशस्कन्धीयभगवद्वाक्ये भक्तं प्रति ज्ञानानुपयोगबो- धनेन तत्समुच्चयस्य वैयर्थ्यात् । तथाचैवं प्रथमे कल्पे श्रुत्योर्द्वितीये च स्मृत्योर्विरोधात् समुच्चय- रश्मिः । श्यामावेति । अवदातो भास्वरशुक्लरूपः । शबलं मिलितम् । भास्वरशुक्लेनेति ज्ञेयम् । शबलादिति । भास्वरशबलश्यामात् श्यामं कदाचिज्ज्ञानेप्रत्यक्षविषयम् । 'सत्यं ज्ञानमनन्त'मित्यत्र व्यापारं विनैव हेतुतया निर्वाणाया निर्वाहमाश्रित्य द्वितीयकोटिसमर्थनाद्वितीयकोट्या संशयमाहुः सत्यादीति । यमेवेति । मुण्डकश्श्रुतौ । भक्त्यैवेति । 'वृङ् संभक्तौ'विति धातुपाठाद्वरणात्मकस्य भक्तिसाधनकरण- व्युत्पत्तिलभ्यस्य । एतद्रूपाद्भक्तिमार्गीयत्वात् । तस्मिन्साधने सति । चरणपदार्थनिविष्टफलरूपभक्तिमार्गे प्रवेशात् फलरूपभक्त्यैवेत्यर्थः । 'भक्त्या जानाति चाव्यय' मितिश्रुतेरेवकारः । ज्ञानभक्ती इति । ज्ञानं ज्ञानमर्यादाभक्तिभेदेन द्विविधम् । भक्तिः पुष्टिभक्तिः । एवं साधनभूतज्ञानभक्ती उक्त्वा फलात्मकज्ञानमसिद्धवदावृतं परपदार्थनिविष्टं ब्रह्मज्ञानं तदुभयविषयकसंशयमुखेन किञ्चेत्यादिभाष्यं विवृण्वन्ति स्म किञ्चेत्यादि । ब्रह्मविदिति । 'क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसा'मिति तदर्थ- कस्स्मृतिः पाठ्या । भाष्ये स्मृत्योरित्युक्तेः । प्रथमकोटावक्षरज्ञानमसिद्धवादावृतं गृहीतमत्रापि तथा । 'ते प्राप्नुवन्ति मामेवे'ति वाक्यात् । अत एव 'क्लेशोऽधिकतर' इति स्मृतावक्षरमात्रविषयिण्यामक्षर- ज्ञानस्य च मोक्षहेतुत्वमुच्यत इति न कोपि दोषः । 'क्लेशोऽधिकतर' इति स्मृत्युपन्यास इति बोध्यम् । तदर्थमिति । मोक्षाय । समुच्चेये इति । 'भक्तिर्ज्ञानाय कल्पत' इति ज्ञानाभेदात्समुच्चेये । भेदे तु विकल्पनीये । स्नेहस्य ज्ञानाद्भेदात् । 'तस्मान्मद्भक्ती'त्यादिभाष्यं विवरीतुमाहुः नवेत्यादि । अष्टेति । एते पूर्वं व्याख्याताः । तथाचैवमिति भाष्यं विवृण्वन्ति स्म तथाचैवमिति । स्मृत्योरिति । 'ब्रह्मवि- दाप्नोति पर'मित्यस्य स्मृतित्वं 'वेदान्तकृद्वेदविदेव चाह'मित्यत्र गीतायां वेदवित् वेदान्तकृदिति 1832