अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1969, कुल 2600 में से
संदर्भ में पढ़ेंभगवद्वाक्याच्च । अत एव रहस्यभजनं लक्ष्यमुक्तम् । तथाच श्रौतत्वभगवत्सम्ब- न्धित्वयोरविशेषात् कतमो गरीयानिति संशये गूढाभिसन्धिः पठति । मुमुक्षोः सकाशाद्रहस्यभजनकर्तैव उपपन्नः उपपत्तियुक्तः। तमेवोद्घाटयति तल्लक्षणार्थोपलब्धेरिति । तल्लक्षणो भगवत्स्वरूपात्मको योऽर्थः स्वतन्त्रपुरुषार्थरूपः, तदुपलब्धेः स्वाधीनत्वेन तत्प्राप्तेरित्यर्थः । यद्यपि पुरुषोत्तमे प्रवेशे तदानन्दानु- भवो भवति, तथापि न प्रभोस्तदधीनत्वम् । भक्तितिरोभावात् । प्रत्युत वैपरीत्यम् । भजनानन्दस्य तत आधिक्यं तु 'मुक्तिं ददाति कर्हिचित् स्म न भक्तियोगम्' भाष्यप्रकाशः। भवती'त्यनेनोच्यते । भजनस्वरूपमित्यारभ्य, भगवद्वाक्याच्चेत्यन्तग्रन्थस्तु स्फुटार्थः । एतन्निगमनायाह अत एवेत्यादि । अत एवेति । स्वरूपस्य फलत्वादेव । 'अस्य भजन'मिति पाठे तु निरुपाधिभजनमेव लक्ष्यम् । उभयथापि 'तद्वैता'नित्यादिभिः सिद्धो निर्णयस्तुल्यः । अतो निरपेक्षभजनेपि मुक्तिरेव फलमिति निर्णयस्य कर्तुमशक्यत्वात् यत् सिद्धं तदाह तथाचे- त्यादि । उक्तहेतुभ्यामुभयोर्भक्तयोः साम्यमेव युक्तमिति पूर्वपक्षरुपे संशये श्रुतिस्थगूढाभिप्रायं प्रकटयन् सूत्रं पठतीत्यर्थः । सूत्रं व्याकुर्वन्ति मुमुक्षोरित्यादि । रहस्यभजनकर्तेति । पाठा- न्तरे तु निरुपाधिभजनकर्ता । तमेवेति । तादृशं भक्तम् । गूढाभिसन्धिर्वा । अग्रे उपपत्तेरेव कथनादिति । ननु पुरुषोत्तमे सायुज्येपि सूत्रोक्तस्य हेतोरुपपद्यमानत्वात् कथं रहस्यभजनकर्तुरे- वाधिक्यस्य सिद्धिरित्यत आहुः यद्यपीत्यादि । ननु मास्तु प्रभोस्तदधीनत्वं सायुज्ये, तथापि स्वरूपानन्दापेक्षया भजनानन्दस्याधिक्ये किं मानम्, अत आहुः भजनानन्दस्येत्यादि । अत्र प्रथमवाक्यं पञ्चमस्कन्धषष्ठाध्याये श्रीशुकैः परीक्षितं प्रत्युक्तम् । 'राजन् पतिर्गुरुर्यं भवतां यदूनां दैवं प्रियः कुलपतिः क्वच किङ्करो वः । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्तियोग'मिति । अत्र मुक्तिदातुरुपदेयत्वेन भक्तेराधिक्ये सिद्धे तदानन्दस्या- रश्मिः। एतन्निगमनायेति । तस्मात्तथेति निगमनं न्यायशास्त्रे । भाष्ये । रहस्येति । तत्राप्तिसाधनं लक्ष्यम्, 'तदिहामुत्रे'त्यादिलक्षणम् । लक्ष्यं निरुपाधि बोध्यम् । प्रकृते । मुक्तिरेवेति । एवकारः स्वरूपस्य व्यवच्छेदकः । उक्तेति । श्रौतत्वभगवत्सम्बन्धित्वाभ्यां हेतुभ्यां उभयोर्मुक्तिभगवत्स्वरूपार्थं भजतोः । इति पूर्वपक्षेति । मुक्तिसाधनत्वेन भजनं गरीयानुत स्वरूपस्यैव स्वतन्त्रपुरुषार्थत्वमनुभवन् भजनं गरीयानिति संशये उक्तहेतुभ्यामित्यादिपूर्वपक्षे रूपं यस्य तादृशे संशये । उक्तायां 'यो ध्यायति रसति भजति सोऽमृतो भवती'ति श्रुतौ तिष्ठतीति श्रुतिस्थं गूढं मुमुक्षोः सकाशात् रहस्यभजनकर्तवोपपन्न इत्यमृतपदगूढं अभिप्रायम् । गूढाभिसन्धिरितिपाठे उक्ताभिप्रायवान् व्यासो भगवान् गूढोभिसन्धि- र्यस्येति बहुव्रीहेः । सूत्रमिति । बुद्धिस्यत्वात्सूत्रमपठित्वा व्याकुर्वन्तीत्यर्थः । गूढाभिसन्धिरूपे भाष्यीयोर्थव्यतिरिक्ते । अत्र हेतुः अग्र इति । सूत्रेऽग्रे उपपत्तेः उपपन्नरूपतादृशभक्तधर्मस्य । यदि तल्लक्षणार्थो न स्यात्तदा तदुपलब्धिर्न स्यादित्येवमन्यथाज्ञानरूपायाः । ननु स्तादमृतपदगूढोभिप्रायः मुमुक्षोः सकाशाद्रहस्यभजनकर्तैव मुख्य इति उपपन्नरूपतादृशभक्तधर्मस्य तथापि तल्लक्षणार्थोपलब्धेरिति हेतुना कथं प्राप्तिरत उक्त एवेति । अप्यर्थे आकृतौ शक्तेः तदाक्षेप्तव्यक्तेरुपपन्नरूपाया गौणार्थत्वात् । कथनात् तल्लक्षणार्थोपलब्धेरिति पदेन कथनात् । सायुज्य इति । उक्तदीयत्वविलक्षणसायुज्ये । रहस्येति । तदीयस्य । तदानन्दस्येति । भजनानन्दस्य । ननु भजनेनानन्दो भजनानन्दः । अत्र