अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1974, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३१३ अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ (३-३-९) अथर्वणोपनिषत्सु पठ्यते ‘परब्रह्मैतत् यो धारयति रसति भजति ध्यायते प्रेमति शृणोति श्रावयत्युपदिशत्याचरति सोऽमृतो भवति सोऽमृतो भवती’ति । तत्र धारणादीनां समुदितानामेवामृतसाधकत्वम्, उत प्रत्येकमपीति भवति संशयः । अत्र धारणादिसाधनकलापमुक्त्वा फलमुच्यत इति समुदितानामेव मुक्तिसाधकत्वम् । उपलक्षणं चैतत् । श्रवणादिनवविधभक्तीनामप्येवमेव तथा- त्वमिति पूर्वपक्षे, सिद्धान्तमाह अनियम इति । समुदितानामेव तेषां फलसा- धकत्वमिति नियमो नास्तीत्यर्थः । अत्रोपपत्तिमाह सर्वासामविरोध इति । ‘चिन्तयँश्चेतसा कृष्णं मुक्तो भवति संसृते’रिति श्रुत्या चिन्तनमात्रस्य तथात्व- भाष्यप्रकाशः । अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ एवं पुष्टिभक्तेः फलरूपत्वं तादृशभक्तस्य स्वरूपं च निरूप्य ततो न्यूनाया अपि मर्यादाभक्तेर्ज्ञानमार्गादुत्कर्षं विषयोत्कर्षात् बोधयितुं मर्यादाभक्तिसाध्यायां मुक्तौ सर्वा भक्तयः सन्निपतन्ति, किं वा प्रत्येकमेवेतरनिरपेक्षाः मुक्तिं साधयन्तीति विचारयितुमधिकरणमारभत इत्याशयेन विषयादिक- माहुः अथर्वणेत्यादि । अत्र सर्वाङ्गे मनोधारणं करोतीति धारयतिपदार्थः । रसति कीर्तयति जपतीत्यर्थः । भजति शारीरादिना सेवते । ध्यायते एकाङ्गं लीलां वा चिन्तयति । प्रेमति युधिष्ठिरादिवत् स्निह्यति । शृणोति श्रावयतीति प्रकटार्थम् । उपदिशति मन्त्रद्वारा बोध- यति । आचरति भगवद्धर्मानिति शेषः । एवमत्र नवोक्ताः । अयं च शाखान्तरीयः पाठः । प्रसिद्धपाठे तु ‘ध्यायति रसति भजती’ति त्रयमेवोच्यते, तदाप्युपलक्षणविधया अन्या अन्यत्रोक्ता अपि समायान्ति । संशयपूर्वपक्षौ स्पष्टौ । सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति समुदितानामि- त्यादि । अत्रेति । अनियमे । रश्मिः । अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ फलभक्तौ मुक्तिनैर- पेक्ष्यमुक्तम्, तदग्रे मुक्तिविचारं विरुणद्धीत्यालोच्याहुः एवं पुष्टीति । गतिसूत्रे उक्तायाः उपपन्नसूत्रे फलरूपत्वम् । स्वरूपं दासदासीसुहृद्रूपम् । मर्यादेति । गतिसूत्रोक्ता या मर्यादाभक्तिस्तत्साध्यायाम् । इतरेति । स्वेतरभक्तिनिरपेक्षाः एकैकेत्यर्थः । धारयतीति । धारणां करोतीत्यर्थः । कीर्तयतीति । ‘रस शब्द’ इति धातुपाठात् । मानसं कीर्तनमित्याहुः जपतीति । ‘जप मानसे’ । सेवत इति । ‘भज सेवायाम्’ । एकाङ्गमिति । ध्यायतीत्यस्य ध्यानं करोतीत्यर्थाद्ध्यानस्वरूपमुक्तम्, ‘वैकुण्ठलीला- मिध्यान’मिति तृतीयस्कन्धादाहुः लीलां वेति । ‘ध्यै चिन्ताया’मिति धातुपाठादाहुः चिन्तयतीति । भगवदिति । मध्यमाधिकारे भगवद्धर्माचरणम् । अन्या इति । भक्तयः । अन्यत्रेति । श्रुत्यन्तरेषु । संशयेति । पूर्वपक्षस्तु अत्रेत्यादि । तथात्वं फलसाधकत्वम् । एवमेवेति । धारणादिकलापवदेव समुदितानां तथात्वं फलसाधकत्वम् । एवाहेति । केवलैति भावविशेषणादेवकारः । तथाच पुष्टि- १ तथात्वम् । २ तत्र । 1849 ४० ब्र० सू० २०