भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1990, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1990

[भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३२९]

इयदामननात् ॥ ३४ ॥ ननु संसारनिवृत्त्यानन्दाविर्भावयोरविशेषादक्षरे ब्रह्मणि लये पुरुषोत्तमे प्र- वेशात् न्यूनतोक्तौ को हेतुरित्याकाङ्क्षायामाह । इयदि१ति परिमाणवचनम् । तस्य श्रुतौ कथनादित्यर्थः । अत्रेदं ज्ञेयम् । तैत्तिरीयोपनिषत्सु 'सैषानन्दस्य मीमांसा भवति'त्युपक्रम्य, मानुषमानन्दमेकं गणयित्वा, तस्मादुत्तरोत्तरं शतगुणमानन्दं गन्धर्वानारभ्य, प्रजापतिपर्यन्तस्योक्त्वा, उच्यते 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्द' इति । एवं सति इयत् एतावदित्यक्षरानन्दस्य सावधिकत्वेन श्रुतौ कथना- दानन्दमयत्वेन निरवध्यानन्दात्मकत्वस्य पुरुषोत्तमे कथनात्तथोक्तिरिति ॥ ३४ ॥ इति तृतीयाध्याये तृतीयपादे एकादशमक्षरधियामित्यधिकरणम् ॥ ११ ॥

भाष्यप्रकाशः। दोषापत्तेश्च । तृतीये त्वक्षरस्याक्षरत्वेन निवेशादुक्तदोषत्रयाभावात्तन्मतमुत्तमम् । तथाप्याथर्वणोदि- तस्य परस्मात्परत्वस्य तैत्तिरीयोक्तस्य लोकरूपत्वस्य या धीस्तदसंग्रहान्न पूर्णमित्यवधेयम् ॥ ३३ ॥ इयदामननात् ॥ ३४ ॥ सूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्तः परिमाणवचनं व्युत्पादयन्ति अत्रेत्यादि । आनन्दमयत्वेनेत्यादि । पूर्वानुवाकसमाप्तावानन्दमये जीवस्योप- संक्र्मणमुक्त्वा, अग्रिमारम्भे 'तदप्येष श्लोको भवती'ति तच्छब्देनानन्दमेव लक्षीकृत्य, 'यतो वाचो निवर्तन्त' इति श्लोकेन वाङ्मनसागोचरत्वस्य ब्रह्मानन्दे कथनेन पुरुषोत्तमे तथा कथना- दक्षरे सावधिकत्वोक्तिरित्यर्थः । ननु 'यतो वाच' इति श्लोकः 'कदाचने'ति पाठभेदेन मनोमयेपि पठ्यते, ब्रह्मोपनिषदि च 'आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुध' इति श्लोकोत्तरार्धं पठ्यते, अतः कथमेतेन पुरुषोत्तमानन्दस्य तथात्वसिद्धिरिति चेत् । उच्यते । मनोमयस्य वेदात्मकताया यजुःशिर- स्त्वादिना बोधितत्वाद्वेदस्य च शब्दब्रह्मात्मकत्वात् 'सर्वे वेदा' इति श्रुतेर्ब्रह्मबोधकत्वान्मनों- मयश्लोके ब्रह्मण इति पञ्चम्या शब्दब्रह्मणो वेदान्मनोमयाद्वाङ्मनसगोचरमानन्दं विद्वान्

रश्मिः। उक्तमनावश्यकत्वं सगुणत्वस्य विशेषस्य निषेधादावश्यकत्वदोषापत्तेरित्यर्थः । द्वितीयभास्करमते भेदोपि कार्यात्मना ज्ञेयः । उक्तेति । गौरवादित्याद्युक्तदोषत्रयाभावात् । तन्मतं रामानुजमत- मुत्तमम् । परस्मादिति । नन्वक्षरधियामित्यत्राक्षरशब्दशक्यतावच्छेदकमक्षरत्वम्, परस्मादपरत्वं तु 'ऋग्वेदो यजुर्वेद' इत्यादिश्रुत्युक्तं ऋगादाविति चेत् । न । अक्षरस्यापरविद्यात्वात्तत्राप्यपरत्वं प्राप्त- मिति । 'द्वे विद्ये वेदितव्ये परा चैवापरा चे'ति श्रुतेः । तैत्तिरीयेति । किंचेतिभाष्ये महाना- रायणोक्तस्य । तदसंग्रहादिति । 'अक्षरधिया' मित्यत्राक्षरस्याक्षरत्वेन निवेशात्, विशेषनिषेधसम्ब- न्धितयाप्यनिवेशात् परस्मादपरत्वेन लोकरूपत्वेनाप्यनिवेशात् तस्या असंग्रहात् । अक्षरपदशक्य- तावच्छेदके न पूर्णम्, किंतु न्यूनमिति न्यूनतास्यनिग्रहस्थानमित्यर्थः ॥ ३३ ॥ इयदामननात् । नन्वित्यादीति । अविशेषादिति । 'दुःखभावः सुखं चेति पुरुषार्थ- द्वयं मत'मितिवाक्यादविशेषात् । तथात्वेति । निरवध्यानन्दत्वसिद्धिः । पुरुषोत्तमेति । शब्दब्रह्मप्रति-

१. इयत इति पाठः । ४२ ब्र० सू० २० 1865