अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2011, कुल 2600 में से
संदर्भ में पढ़ें३५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४१ . अत आदराद्धेतोस्तद्वचनाद्भगवद्धर्माणां बलवत्त्वेनालोपवचनात् न कर्माङ्गत्वमे- तेषां सिध्यतीत्यर्थः ॥ ४१ ॥ इति तृतीयाध्याये तृतीयपादे चतुर्दशमादरादलोप इत्यधिकरणम् ॥ १४ ॥ भाष्यप्रकाशः । यादिबोधकवाक्यैः प्रबलदुर्बलभावे वैपरीत्येन भाते तदपवादायादरः प्रकाश्यते । ततश्च भगवद्धर्माणां बाधाभावः सिध्यति । तथा सतीतरेषामादराभावेपि प्रत्यवायश्रवणवैय्यर्थ्य- परिहाराय तेषां गौणकाले करणमर्धाधानवद्व्यवस्थाप्यते, अतो न भक्त्यादीनां कर्माङ्गत्वमित्यर्थः । अत्र कर्मणामनादरव्युत्पादनेन भगवद्धर्माविरुद्धरीत्या तत्करणस्य व्युत्पादनेन च निष्कामनित्य- कर्मकृतिबोधकं अपाश्रितार्भकाश्वत्थमिति विशेषणं प्रतिपादितं ज्ञेयम् । रश्मिः । एकादशवाक्योक्तमृत्युप्राप्तेर्निन्दा । वैपरीत्येनेति । बलाबलविचारे ज्ञानकाण्डत्वादुपनयनादिवि- त्याभासोक्तं वैपरीत्यम्, तेन 'यदेव विद्यये'ति श्रुत्या भाते 'तमेतं'मितिश्रुत्या ज्ञानकाण्डत्वेन च तस्य वैपरीत्यस्यापवादाय 'ऋषयोपि देव युष्मत्प्रसङ्गविमुखा इह सम्भरन्ती'त्युपष्टम्भाद्भगवद्धर्मेष्वादरः प्रका- श्यते, नतु वर्णाश्रमधर्मे । इतरेषामिति । वर्णाश्रमधर्माणाम् । अर्धाधानेति । अर्धाधाने कृते कामनासद्भावेपि विधिबलादर्धाधानं क्रियते तस्यैव । गौणकालोऽनधिकारकालो विधिलभ्यः । तदेत- त्षष्ठस्य द्वितीयपादे तृतीयाधिकरणे स्पष्टम् । सूत्राणां न्यायरूपत्वात् । 'असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते । आद्यः प्रयोजनाभावान्नत्यो निन्दादिसंश्रवा'दिति । अत्र 'चित्रया यजेत पशुकामः' 'कारीर्या यजेत वृष्टिकामः' इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम् । तस्य च समाप्तेः प्रागेव केनापि निमित्तेन तत्तत्फलप्राप्तौ दोषदर्शनेन कामो निवर्तते । तदा कर्मानुष्ठाने प्रयोजनाभावात् न समापनीय- मिति चेत् । मैवम् । प्रक्रान्तस्य कर्मणोऽसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात् । 'देवताभ्यो वा एष प्रवृ- श्च्यते यो यक्ष्य इत्युक्त्वा न यजते' 'त्रैधातवीयेन यजेत न देवताभ्य आवृश्च्यते'ति तदुभयं श्रुतं तस्मा- त्समापनीयमित्यर्थः । ओ व्रश्चू छेदने । अत इति । वैपरीत्यापवादात् । तत्करणस्य कर्मकरणस्य । निष्कामेति । 'कर्माणि साधनत्वेन निरूपयती'ति सुबोधिन्याभासात् । 'अपाश्रितः आश्रितः अर्भका- श्वत्थो येन । आश्रितः पश्चादिति वा । अर्भाणां कं सुखं यस्मात् । बालकसुखदायी । अर्भकरूपः कोमलः अश्वत्थो वा । तस्यैवारणी भवतः । कर्माणि सर्वाणि तत्साधनान्येव । अपाश्रयपदेन च साधनत्वेनैव कर्मणामपेक्षा, नतु तद्गतं फलमप्यपेक्षत इति सूचितम् । अपाश्रिता अर्भका यस्मिन्निति बालाधिकारः कर्मणि सूचित' इति सुबोधिनी । आभासे साधननिरूपणं लोकसंग्रहार्थम् । पश्चादिति । मायाया निवृत्तेः पश्चात् । स चाश्वत्थो धर्मरूपोपि ऐश्वर्यधर्मरूपः अन्ययाकरणसमर्थः । अन्यथा ब्रह्मणा प्रार्थि- तोपि न स्वरूपमन्यथयेत् । वीर्यं तु नाश्येयम् । 'नैच्छद्वपु'रितिवाक्यात् । ननु नित्यानन्दे प्रभासली- लानुपपन्नेत्यत आहुः अर्भानामिति । ऐश्वर्याविशेषेऽधोक्षजो बाल इति न नित्यानन्दत्वविरोधः । धर्मोऽश्वत्थः 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येक' इति । स एवैश्वर्यमित्यर्भकरूपः । अधुना लोकसंग्रहार्थं कर्माश्रयणरूपं तेन बृहदारण्यकोक्तोऽश्वत्थः कालात्मा भगवाञ्जातोऽश्वत्थादमिरूपोपि, अश्वत्थे धर्मे तन्नि- ष्ठाश्चे च तिरोभवतीत्यश्वत्थाश्रयणेच्छाया आहुः तस्यैवेति । महीधर्यां वेदटीकायामश्वत्थगर्भशमीशाखा- हरणोक्तेः । तत्साधनानीत्यरणिकाष्ठानयनसाधनानि साक्षात्परम्परयेति बोध्यम् । अपाश्रित आश्रित इत्यर्थ उक्तोऽपररी अनर्थकाविति सूत्रात् । अधुनाऽपार्थ हीनं वदन्ति अपाश्रयेति । कर्मणा- 1886