अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2013, कुल 2600 में से
संदर्भ में पढ़ेंवीनाम् । एवं सत्युभयविधानां मध्ये, मम कर्मकरणे प्रभोरिच्छास्तीति यो निर्धारयति, स करोति । य एतद्विपरीतम्, स न करोति । यथा शुकजडादिः । एतन्निर्धारणश्च भगवदधीनः, अतो भक्तेष्वपि तन्निर्धारणानियमः, अतः कर्म कर्तव्य- मेवातन्निर्धारणे त्वाधुनिकानाम् । एवं सतीच्छाज्ञानवता तत्सन्देहवता च कर्म कर्तव्यमिति सिद्धम् । तत्रोभयोः फलं वदन्नादावाद्यस्याह तद्दृष्टेः । तस्या भगवदिच्छाया दृष्टिर्ज्ञानं यस्य स तथा । तस्य जीवकृतकर्मफलात् पृथक् भिन्नमीश्वरकृतकर्मणो यत्फलं वेदमर्यादारक्षा लोकसंग्रहश्च तत्फलमित्यर्थः । हिशब्देन 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्त- श्चिकीर्षुर्लोकसंग्रह'मिति भगवद्वाक्यरूपोपपत्तिः सूचिता । द्वितीयस्य मध्यमा- धिकारात् काले सङ्गादिजनितचित्तमालिन्येन भगवत्सांनिध्ये प्रतिबन्ध