अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2045, कुल 2600 में से
संदर्भ में पढ़ें१८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४७. तदेव, न त्वन्यादृशमपीति ज्ञापनायाग्रे वदति 'नायमात्मा बलहीनेन लभ्य' इति । बलकार्यं हि प्रभुवशीकरणम् । तच्च 'अहं भक्तपराधीनः' 'वशे कुर्वन्ति मां भाष्यप्रकाशः। मुण्डके 'नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गा'दिति । ननु श्रुतौ बल- शब्दो वर्तते, न तु भक्तिशब्द इति कथं तेन तन्निर्णय इत्याकाङ्क्षायां बलशब्देन तत्प्राप्तिमुप- पादयन्ति बलकार्यमित्यादि । नच बलशब्दस्य शरीरसामर्थ्ये प्रयोगदर्शनाद्भक्तौ तस्य लाक्ष- णिकत्वं स्यादिति शङ्क्यम् । वशीकारके यस्य कस्यापि सामर्थ्ये तत्प्रयोगदर्शनात् । तृतीयस्कन्धे कपिलवाक्ये 'बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् । या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवल'मिति भ्रूविजृम्भसामर्थ्येपि तत्प्रयोगात् । अतः कार्यादिशब्दवत्सापे- रश्मिः। विवरणात् लेडाश्रयणम् । तेषां तव्यदादीनां विधौ विधानात् । लेटोपि लिङर्थे विधानात् । आश्रावयेतिश्रुतौ श्रौषट् वषडिति हविर्धानार्थकाव्यौ । अनेकेति । यथा 'तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्गथुपगूढास्ते योगीवानन्दसम्प्लुते'ति फलप्रकरणे निर्गुणभक्तवरणं योगिवत् कामसम्बन्धव्यतिरेकेण । रसेति । विवादाभावाय काव्यप्रकाशादौ स्नेहमागैक्येन रसशास्त्रं प्रपञ्चि- तमित्युभयोरैक्याभिप्रायेण । तदुक्तं 'कामाद्रोप्य' इति । वस्तुतस्तु 'आत्मकाम' इति श्रुत्युक्तो वेदयोग्य एव कामो वाक्ये ग्रहीतुं शक्यः, भगवतः श्रीकृष्णस्यात्मत्वात् । तत्र काचित् श्रीकृष्णप्रेमवती काचिद्भेदान्तश्रुतिर्वैराग्योत्कर्षवती श्रीकृष्णे शृङ्गारवती । कोशे प्रेमशृङ्गारयोर्नाम्नां भेदात् । 'प्रेमा- नाप्रियताहार्द' मित्यादौ 'शृङ्गारः शुचिरुज्ज्वल' इत्यत्र च । तथापि 'ओमित्येकाक्षरं ब्रह्म, अभि- र्देवता ब्रह्म' इत्यार्षं गायत्र्यं छन्दः परमात्म स्वरूपं सायुज्यं विनियोगमायातु वरदा देवी, अक्षरं ब्रह्म संमितं गायत्र्यं छन्दसां मातेदं ब्रह्म जुषस्व म' इति सन्ध्याश्रुतेः 'स्त्रीद्वारा पुरुषे भवे'दिति स्त्रीणां कामावश्यकतया भेदो युक्त उभयेषाम् । अग्रे 'वशे कुर्वन्ति मां भक्त्ये'ति भाष्याच्च । तत्र 'सत्स्त्रियः सत्पतिं यथे'ति दृष्टान्तात् । यदि च 'आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्य' इति जीवप्रकरणगीतायाः रूप्यकामुकीति प्रेमवत्याः कामाभावे शृङ्गारवतीतो भिन्ना, तदा तु भक्तिमार्ग इति भाष्यं पुष्टिमार्ग इत्यर्थकम्, प्रकरणात् दर्शनाच्चेतिसूत्राच्च । तत्र पुष्टिमार्गीयभक्तोदाहरणात् । भ्रूविति । भ्रूविजृम्भः सामर्थ्यं भ्रूविजृम्भसामर्थ्यमिति कर्मधारयः । कार्यादीति । यथा कस्य कार्यम्, कस्य शब्दः इत्यत्र कुविन्दस्येत्याद्युक्तौ कार्ये पटत्वेन घटत्वेन कुड्यत्वेन कुसूलत्वेन गृह्यते, यथा वा किं कार्यम्, कः शब्दः, को घटः इत्यत्र पटः कार्यम्, घटः कार्यम्, कुड्यं कार्यम्, कुसूलं कार्यमित्युक्तौ कार्यत्वेन घटादीनां ग्रहणम्, पटः पृथ्वी ताम्रपटस्य पृथ्वीत्वेन ग्रहणवत् । आकाशस्येत्याद्युक्तौ आकाशतन्मा- त्रत्वेन पार्थिवत्वेन शब्दो गृह्यते, यथा वा ध्वनिः शब्दः 'श्रोत्रग्राह्यो गुणः शब्द' इत्यत्र शब्दत्वेन ध्वन्यादीनां ग्रहणम् । को घट इत्यत्र 'घटः पृथिवी'त्युक्तौ पृथिवीत्वेन घटस्य । एवं कस्य बलं किंबलमित्यत्र भक्तस्य मायाया इत्युक्तौ भक्तित्वेन भ्रूविजृम्भत्वेन बलं गृह्यते, एवं भक्तिर्बलम्, भ्रूविजृम्भो बलमित्युक्तौ बलत्वेन भक्तेर्भ्रूविजृम्भस्य ग्रहणमिति कुम्भपदेन घटग्रहणवद्वलपदेनाभिधया वृत्त्या भक्तिग्रहणमिति बलपदस्य भक्तमायाभक्तिभ्रूविजृम्भैः सापेक्षा वृत्तिर्मिथाख्या यस्य तत्त्वात् । सामर्थ्यं भक्तिरूपं बलरूपं वा तद्रूपत्वं भक्तावादाय भक्तित्वेन बलत्वेन वा बलपदप्रयोगः । बल- भक्तिरिह सामर्थ्यमेकमिति भक्तिस्थाने बलपदप्रयोग इति नार्थः, 'सिंहो माणवक' इतिवत् गौण्या- 1920