अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2050, कुल 2600 में से
संदर्भ में पढ़ेंनिर्धारणादिति । 'सुखं त्वेव विजिज्ञासितव्य'मित्युक्त्वा, सुखस्वरूपमाह 'यो वै भूमा तत्सुखम्, नाल्पे सुखमस्ति, भूमैव सुखम्, भूमा त्वेव विजिज्ञासितव्य' इति । अक्षरपर्यन्तं गणितानन्दत्वात् पुरुषोत्तमस्यैवानन्दमयत्वेन निरवधिसुखा- त्मकत्वात् स एव भूमा, तस्यैव विजिज्ञासितव्यत्वेन निर्धारणादित्यर्थः । भूम्नो भाष्यप्रकाशः। मेवात्रोच्यते, न तु त्वदुक्तमित्यर्थः । एवं प्रकरणभेदे सत्यतिदेशोऽप्यकिञ्चित्कर एव । अतिदेश- मात्रेण तदवान्तरभेदत्वस्य क्वाप्यसिद्धत्वादिति । हेतुं व्याकुर्वन्ति सुखं त्वेवेत्यादि । तथाच पूर्वत्र 'सदेव सौम्ये'ति सद्रूपमात्मानं प्रकृत्य तद्भेदज्ञानमुपदिष्टम् । इह तु भूमपदोक्तं निरवध्यानन्दरूपं जिज्ञास्यत्वेन निर्धारयति । यद्यत्र पूर्वप्रकृत आत्मा बोधनीयः स्यात्, तदात्रापूर्वं भूमशब्दं न वदेत्, व