अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2058, कुल 2600 में से
संदर्भ में पढ़ेंपृच्छत् । अन्ते सर्वाधिकत्वेन सुखात्मकत्वेन भूमानं श्रुत्वा तथा नापृच्छत्, किन्तु तदाश्रयार्थमत्यार्त्या 'कस्मिन् प्रतिष्ठित' इत्यपृच्छत् । तदा सर्वात्मभाव- वत्स्वेव प्रतिष्ठित इत्याशयेन सर्वात्मभावलिङ्गात्मकं भावं 'स एवाधस्ता'दि- त्यादिनोक्तवान् ॥ ४९ ॥ भाष्यप्रकाशः सर्वेभ्यो नामादिप्राणपर्यन्तेभ्योऽक्षराबोचमः । अतो नामाद्याशान्तेषु ब्रह्मेत्युपास्यत्वेन कथनात् सनत्कुमारोक्तप्रतिरूपं सनत्कुमारेण 'नाम्नो वाव भूयोऽस्ती'त्याद्युक्ते 'तन्मे ब्रवीतु भगवा'- नित्येवं तल्लक्षितरूपं तत'स्ततो भूयोऽस्तीति ज्ञात्वा अपृच्छत् । अन्ते पश्चात् सर्वाधिकं भूमानं श्रुत्वा, तथा 'अस्ति ततोऽपि भूय' इत्येवं नापृच्छत्, किन्तु तदधिष्ठानमपृच्छत् । तथाचैतत्तत्प्रश्नद्वयसामर्थ्येनाप्युपक्रमगतमात्मपदं पुरुषोत्तमपरमिति निश्चीयते । वाक्याल्लिङ्गस्यापि बलीयस्त्वादित्यर्थः । नन्वस्त्वात्मपदं पुरुषोत्तमपरम्, तथापि विवक्षितसर्वात्मभावबोधक- स्यात्रादर्शनात् कथं न तद्भूयस्त्वबाध इत्यत आहुः तदेत्यादि । तथाच द्वितीयप्रश्नोत्तरे सर्वात्मभावलिङ्गस्य दर्शनान्न तद्बाध इत्यर्थः । एतेनावश्यकोपपत्तिरत्र वाक्यतात्पर्यनिर्णायि- केत्युक्तम् ॥ ४९ ॥ रश्मिः । त्यदादीनामुत्सर्गः प्रधानपरामर्शित्वेन स पुरुषोत्तमः, न तु नारदः । अपृच्छदित्यत्र तु नारदः कर्ता । ननु स नारदो हि निश्चयेन श्रौतत्वादुत्तमः, मध्यमाधिकारित्वस्य श्रीभागवतीयत्वेन भगवन्मतत्वात् । श्रौतत्वाभावात् । अतः सर्वोत्तमत्वात् । सनत्कुमारोक्तप्रतिकूलरूपम्, अन्यत् समानं व्याख्यानमिति व्याख्यानं कुतो नादृतम्, अन्यथा स हि सर्वेभ्य उत्तम इति भिन्नं वाक्यं स्यादिति चेत् । न । पूर्वोक्तदोषाणामवर्जनीयत्वेन वाक्यभेदस्यादोषत्वात् । तल्लक्षितेति । प्रति लक्षणे 'लक्षणेत्थम्भूता- ख्यानभागवीप्सासु प्रतिपर्यन्व' इति पाणिनिसूत्रात् । नारदलक्षितं रूपम् । तथा चेति । पूर्वोक्त- प्रकारेण च प्रश्नद्वयम्, ततो 'भूयोऽस्ती'ति ज्ञानेन प्रश्नः अधिष्ठानप्रश्नश्च । वाक्यात् 'सोहं भगवो मन्त्रविदेवास्मि, नात्मवि'दिति वाक्यात् लिङ्गस्य ततो भूयस्त्वेन ज्ञातस्य ज्ञानविषयिणीच्छारूपस्य तदधिष्ठानज्ञानविषयिणीच्छारूपस्य च अपिपदेनात्मरूपनिरपेक्षत्वस्य बलीयस्त्वात् । तद्भूयस्त्वबाधो लिङ्गभूयस्त्वबाधः । ननु वाक्यार्थजीवात्मरूपस्य प्रतीतस्य बाधाद्वाक्याप्रामाण्यापत्तिरिति चेत्, तत्राहुः एतेनेति । उपपादनादावश्यिका युक्तिः, पुरुषोत्तमपर आत्मशब्दो न स्यात्, वाक्यप्रश्नसामर्थ्यश्रुतयो न स्युरित्येवंरूपा वाक्यस्य तात्पर्यं तस्य पुरुषोत्तमे निर्णयायिकेत्येतेन भाष्येणोक्तम् । वक्तुरिच्छा तु तात्पर्यम् । तस्य शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतुत्वम्, 'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः । सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादय' इति काव्यप्रकाश आदिपदात् । यद्यप्यादिपदार्थोऽभिनयादयः, इदं च