अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 206, कुल 2600 में से
संदर्भ में पढ़ेंब्रह्मप्रतिपादकं ब्राह्मणम्, तच्छेषाः सृष्ट्यादिप्रतिपादकाः । यद्यपि न विधीयते, तथापि तादृशमेव ज्ञानं फलायेति युक्तमुत्पश्यामः । पूर्ववैलक्षण्यं तु भूषणाय । भाष्यप्रकाशः । त्यादीनामृचाम्, अच्युतमसीत्यादीनां यजुषां, हानू हानू हावू इत्यादीनां साम्नां च विद्य- मानत्वात् तान्येव मन्त्रः । ऋगित्युपलक्षणम् । तद्भिन्नं ब्रह्मप्रतिपादकं ब्राह्मणम् । ब्रह्मप्रतिपादक- भागशेषाः सृष्ट्यादिप्रतिपादका भागा ब्राह्मण एव निविशन्ते । ततश्च मन्त्रब्राह्मणसमुदायरूपत्वात् सिद्धं वेदान्तानां वेदत्वमिति । तर्हि वेदोत्तरत्वं कथं निवर्ततामित्यत आहुः यद्यपीत्यादि । तथाच वेदे बाधितार्थवचनस्याभावादविधीयमानमपि ज्ञानं यथोक्तं फलं जनयिष्यत्येवेति नोत्तरत्वमित्यर्थः । ननु पूर्वमीमांसायां विहितस्यैव फलवत्त्वं साधितमिति कथं तथेत्यत आहुः पूर्वेत्यादि । तथाच, गुणे त्वन्यायकल्पनेति तत्रैवोक्तत्वाद् वेदगुणभूतस्य जैमिनीयस्यैव निर्णयस्य हीनाधिकारिपरत्वं वेदविरोधे कल्पनीयमित्यर्थः । रश्मिः । अमेध्या वै माषा इति निन्दा, वायुर्वे क्षेपिष्ठा देवतेति प्रशंसा, तद्विचिकित्सन् जुह्वानीति संशयः, यजमानेनेत्यादि विधिः, माषानैव मह्यं पचतेति परकृतिः, पुरा ब्राह्मणा अनैषुरिति पुराकल्पः, याव- तोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुःकपालान्निर्वपेदिति विशेषावधारणकल्पना । एवं मन्त्रेपि इन्दवो वामुशन्ति हीति हेतुः, उदानिषुर्महीरिति तस्मादुदकमुच्यते इति निर्वचनं, मोघ- मन्नं विन्दते अप्रचेता इति निन्दा, अग्निमूर्धा दिवः ककुत्पतिरिति प्रशंसा, अधःस्विदासीदुपरिस्विदा- सीदिति संशयः, कपिञ्जलानालभेतेति विधिः, सहस्रमयुतं दददिति परकृतिः, यज्ञेन यज्ञमयजन्त देवाः इति पुराकल्पः । ऋगेव मन्त्र इति भाष्यं व्याकुर्वन्ति वेदान्तेषु चेत्यादि । ऋचामिति 'तेषामृग्यत्रार्थवशेन पादव्यवस्था' इति सूत्रोक्तमर्थवशेन व्यवस्थितपादत्वरूपं लक्षणमन्त्रानुस्यूतमिति ऋचामित्यर्थः । तेषामित्यस्य मन्त्राणामित्यर्थः । अर्थवशेनेत्यनेन छन्दोनुरोधेन मगणादिकृता 'पाद- व्यवस्था व्यावर्तता । यजुषामिति 'शेषे यजुःशब्दः' इति सूत्रोक्तमृक्सामतिरिक्तमन्त्रत्वरूपं लक्षणमन्त्रानुस्यूतमिति यजुषामित्यर्थः । साम्नामिति 'गीतिषु सामाख्या' इतिसूत्रोक्तं ऋक्षु यद्गानं तद्रूपत्वरूपं लक्षणमन्त्रानुस्यूतमिति साम्नामित्यर्थः । तान्येव मन्त्र इति मन्त्रपदोत्तरं यदेकत्वं तत्प्रकृत्यार्थावच्छेदके मन्त्रत्वेऽन्वेति मन्त्रत्वं च ऋग्यजुःसामनिष्ठमेकमेवेति नायोग्यता । न च पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेति व्युत्पत्तिविरोधः । अनेकव्रीहिव्यक्तितात्पर्यके संपन्नो व्रीहिरितिवाक्येप्येकवचनदर्शनेन तादृशव्युत्पत्तिसंकोचस्यावश्यकत्वादित्यन्यत्र विस्तारः । ननु भाष्ये ऋगित्युक्तेः कुतो यजुःसाम्नोर्ग्रहणमित्यत आहुः ऋगित्यादि । ब्रह्मप्रतीत्यादि भाष्यं विवृण्वन्ति तद्भिन्नमित्यादि । साधितमिति द्वितीयाधिकरणे साधितमित्यर्थः । तथाच शाबरभाष्यम् 'यः पुरुषं निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते' इति । तत्रैवेत्यादि पूर्वतन्त्रे नवमस्य तृतीयपादे 'विप्रतिपत्तौ विकल्पः स्यात् समत्वाद् गुणे त्वन्यायकल्पनैकदेशत्वात्' इत्यधिकरणे अदितिः पाशां प्रमुमोक्तेतुं अदितिः पाशान् प्रमुमोक्तेतानिति पाशमन्त्रावेकवचनान्तबहुवचनान्तौ तत्र बहुवचनान्तः किं प्रकृतावे- वाग्नीषोमीये निविशते उत बहुपाशकेषु पशुगणेषूत्कृष्यते नोत्कर्षः किंतु गुणे कारकगतसंख्यामभिधा- यित्वेन गुणभूते बहुवचने लक्षणाकल्पना पाशावयवगतेषु बहुत्त्वं लक्ष्यते इति । एवमुपाङ्गेषु गणना- द्वेदगुणभूतायां पूर्वमीमांसायामेव तत्त्वं कल्पनीयमित्यर्थः । उपलक्षणाद्वैलक्षण्यस्यासत्त्वेदरूपभूषणभावेहि