अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2060, कुल 2600 में से
संदर्भ में पढ़ेंभवति व्यभिचारिभावैः। ते त्वनियतस्वभावा इति ज्ञापयितुं त्रिविधाः। 'स एवा- धस्ता'दित्यादिना, 'आत्मैवेदं सर्व' मित्यन्तेन निरूप्य, भूमप्रतिष्ठाधिकरणप्रभे, यदुत्तरितं 'स्वे महिम्नी'ति, तमेवानुबध्नाति, 'स वा एष' इत्यनेन, तच्छब्दस्य पूर्वप- भाष्यप्रकाशः। तदादेशाहङ्कारादेशात्मादेशरूपास्तिस्रो विधास्तस्य भावस्य ज्ञापकाः प्रकारांस्तांस्त्रीन् प्रकारान् 'स एवाधस्ता'दित्यारभ्य 'आत्मैवेदं सर्व' मित्यन्तेन निरूप्य, भूमप्रतिष्ठाप्रश्ने यदुत्तरितं 'स्वे महिम्नी'ति, तं महिमपदोक्तं भावमेवानुबध्नाति, 'स वा एष' इति तच्छब्दस्योक्तमहिमपरामर्शित्वात् तस्मिन् भक्ते 'एवं पश्य'न्नित्यादिना तत्कर्मकदर्शनादिकर्तृताबोधनेन तद्भाववैशिष्ट्यं बोधयंस्तमेव भावं महिमपदेऽ