अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2062, कुल 2600 में से
संदर्भ में पढ़ेंरामर्शित्वात्। एवं सति त्वदुक्तमन्यत्राप्रतिष्ठितत्वं चेदिह प्रतिपाद्यं स्यात्, तदोक्त- रीत्यानुबन्धं न कुर्यात्, अहङ्कारादेशादिकं च न कुर्यात्, उक्तप्रश्नोत्तरं चान्यथ- स्वभावान् 'न क्वापी'त्येव वदेत्। तस्मादस्मदुक्त एव मार्गोऽनुसर्तव्यः। आदिपदात् त्रिविधा ये भावा उक्ताः, तेषामपि स्वरूपं 'एवं पश्यन्नेवं मन्वान एवं विजान'न्निति क्रमेण यन्निरूपितं तदुच्यते। पूर्वं ह्यतिविगाढभावेन तदितरास्फूर्त्या तमेव सर्वत्र पश्यति। एतदेवोक्तं 'एवं पश्य'न्नित्यनेन। ततः किञ्चिद्वाह्यानुसन्धानेऽहङ्कारावेशो भवति। स त्वहमेव सर्वतः स्वकृतिसामर्थ्येन तं प्रकटीकरिष्य इति मनुते। भाष्यप्रकाशः। दूष्यन्ति एवं सतीत्यादि। एवं सतीति। अनुबन्धादिरूपविचारणोक्तरीत्या श्रुतेः सामञ्जस्ये सति। एवं सतीत्यस्य तस्मादित्यनेन सम्बन्धः। तथाचैवं श्रुतिसामञ्जस्ये सति तस्मात्। अनुबन्धकरणाहङ्कारादेशादिकरण'न क्वापी'त्यवदनरूपाद्धेतुत्रयात् तथेत्यर्थः। ननूक्तहेतुत्रयात् यद्यपि पूर्वपक्ष्यभिमतं बाध्यते, तथापि त्रिविधभावैः सिद्धान्त्यभिमतं कथं सिध्यतीत्याकाङ्क्षाया- मादिपदोक्तानां स्वरूपं व्याख्यातुं प्रतिजानते आदीत्यादि। तदुच्यत इति। तत् व्याख्यायते। व्याकुर्वन्ति पूर्वमित्यादि। एतदेवेति। एतादृशं दर्शनमेव। स त्विति। अहङ्कारादेशवांस्तु। रश्मिः। अनुबन्धादिभ्य आत्मरत्यादि भवत्यतस्तस्य सर्वात्मभावस्य न बाध इत्यर्थः। ननु 'ततोऽतिदैन्येने'त्या- दिवक्ष्यमाणभाष्यादनुबन्धादिभ्य आत्मरत्यादि भवतीत्येव सूत्रमस्त्विति वाच्यम्। 'नन्वेतया श्रुत्या न सर्वात्मभावलिङ्गात्मको भाव उच्यते' इति प्रकृतसूत्राभासोक्तस्य कारणत्वात् सूत्रपठने। अतोऽनुबन्धा- दिभ्यः सर्वात्मभावलिङ्गात्मकभावस्य न बाध इति युक्तमेव। उक्तेति। कर्तृद्वारा सर्वात्मभावानुबन्ध- रीत्या सर्वात्मभावलिङ्गत्वकथनरीत्या च श्रुतेः 'स्वे महिम्नी'त्यस्याः प्रतिपाद्यसामञ्जस्य इत्यर्थः। न चानुबन्धादिभ्योऽन्यत्राप्रतिष्ठितत्वं सिध्यति। तस्यार्थस्य ज्ञानमार्गीयत्वात्। आत्मादेशादेरसम्भवाच्च। श्रुत्यादिबलीयस्त्वादिति सूत्रे ज्ञानप्रकारविशेषदूषणाच्च। भक्तिमार्गीयव्याख्याने तु 'व्यतिहार' इति सूत्रोक्तसञ्चारिरूपस्य सुखेन सर्वात्मभावलिङ्गत्वसम्भवाच्च। तथेति। अस्मदुक्तमार्गोऽनुसर्तव्य- त्वेन प्रकारेणेत्यर्थः। अतोऽस्मदुक्तोऽस्माभिः 'तन्निर्धारणानियम' इत्यधिकरण उक्तः, कृत्यविषयोपि मार्गो भक्तिमतां भक्तिमार्गमनु पश्चात् सर्तव्यः प्राप्तुं योग्यः। 'तयोरेव कृत्यक्तखलर्था' इति सूत्रेण उक्तमार्गोऽनुसृत्य इति वार्थः, कर्मणि तव्यप्रत्ययाद्वा। भाष्य एवकारस्तु कर्ममार्गस्य हिरण्यगर्भा- तिरिक्तामोचकत्वेन ज्ञानमार्गस्याक्षरमात्रप्रापकत्वेन भक्तिमार्गस्यैव मार्गत्वात्। तदुक्तं तृतीय- सुबोधिन्यां पञ्चविंशाध्याये सिद्धान्तान्तरनिरूपणोक्तिपुरस्कारेण चतुश्चत्वारिंशे श्लोके 'सर्वं शास्त्रार्थं निरूप्य परलोकार्थं यततां अस्मिन् लोके एतावानेव निःश्रेयसोदयः, तच्चेत् स्थिरीभवति, तदा कृतार्थता, तत्स्थिरीकरणार्थं भक्तिरेव, केनापि प्रकारेण भगवति स्थिरं मनः परमपुरुषार्थसाधकमिति योग- सिद्धान्तः। तत्र भक्तिरेव स्थिरीकरणे हेतुरिति स्वसिद्धान्तानुसारेणापि भक्तिर्निरूपिता, भागवतानुसारे- णापि। तस्माद्भक्तिः सर्ववादिसम्मतेति सैव कर्तव्ये'ति। इयं भक्तिमार्गस्य कृतिविषयस्य विषयीकुर्वाणा मुख्यभक्तिरूपसर्वात्मभावमपि सिद्धान्तविषयीकरोति। कैमुतिकन्यायेन 'ह्येकादशसर्वस्वं भगवान् स्वयमु- क्तवा'निति सर्वनिर्णयोपान्ते उक्तं कृत्यविषयमपि। 'तस्मादन्यद्वचो मुञ्चे'ति सर्वनिर्णयात्। अनुभवाच्च। एतादृशमिति। एवंपदादिति भावः। न तु ज्ञानमार्गीयाभेददर्शनम्, एवंपदेन पूर्वविमर्शात्। पूर्वत्र ५१ ब्र० सू० २० 1937