भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2072, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2072

यापेक्षया व्यवहितान्वयपक्षस्य लघुत्वादिति । अग्रे तु तैरष्टसु सूत्रेषु शङ्कराचार्याद्युपन्यस्तैव विद्या विचारिता । तन्मतचोरः शैवस्तु, तद्देवैकसूत्रेऽस्मिन्नधिकरणे, महानारायणोपनिषत्स्थं 'सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः सन्महो नमो नमः । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु' इति मन्त्रमुदाहृत्य, तदग्रिमं 'कद्रुद्राये'ति मन्त्रं त्यक्त्वा, 'नमो हिरण्यबाहवे हिरण्यपतयेऽम्बिकापतये उमापतये पशुपतये नमो नम' इति मन्त्रं चात्र उदाहृत्य, अत्र किं सर्वात्मत्वादिभिरुमापतित्वेन च श्रूयमाणं परं ब्रह्म पूर्वप्रकृते सवितृमण्डलविद्यामात्र उपास्यम्, उत सर्वासु परविद्यास्विति सन्देहे, प्रकरणा- द्यप्राप्तिमुद्भाव्य, परविद्यालिङ्गसम्बन्धवाक्यभूयस्त्वात् सर्वासु पर