अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2076, कुल 2600 में से
संदर्भ में पढ़ेंयथा विचारिताः सन्ति, ते तथा भवन्तीति तद्विचार एव सर्वेषामधिकाररूप इति 'कृतप्रयत्नापेक्षस्त्वि'त्यत्र निर्णीतम् ॥ ५४ ॥ अस्मिन्नर्थे कैमुतिकन्यायकथनार्थं निदर्शनत्वेनोत्तरं पठति । अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥ यागे तत्तदृत्त्विङ्गियनकर्त्तव्यान्यन्वाधानादीन्यङ्गानि । तत्रावबद्धाः सर्व एवर्त्विजो यजमानेन । अवबन्धनं नाम 'अध्वर्युं त्वां वृणे,' 'होतारं त्वां वृणे,' 'उद्गातारं त्वां वृण' इत्यादिरूपं वरणमेव, अन्यथा सर्वकर्मविदुषां तत्कृतिपटूना- मेकत्राधिकारः, नान्यत्रेति नियमो न स्यात् । तस्य तस्य तथा वरणे तु यजमाने- च्छैव हेतुः । ते च तदा न सर्वासु शाखासु विहितान्यङ्गानि कर्तुं सर्वेपि शक्ताः, किन्तु यजमानवरणनियमिता एव तथा । तत्र हेतुमाह । हि यतः कारणात् [