अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2084, कुल 2600 में से
संदर्भ में पढ़ेंमाह । सर्वेष्ववतारेषु नानैवोपासना कार्या । तत्र हेतुः शब्दादिभेदादिति । तत्तत्स्वरूपवाचकशब्दानां मन्त्राणां चादिपदाद्वाकारकर्मणां च भेदादित्यर्थः । एतेनैव मिथोविरुद्धानामाकारकमेणामेकत्र भावनस्याशक्यत्वमयुक्तत्वं चेति भावः सूचितः ॥ ५८ ॥ इति तृतीयाध्याये तृतीयपादे विंशं नाना शब्दादिभेदादित्यधिकरणम् ॥ २० ॥
भाष्यप्रकाशः । न्तरावज्ञारूपापराधकृतप्रतिबन्धेनासम्भवात् । तथाचात्र दोषाभावणेप्युक्तरीत्या दोषसम्भवान्न कार्ये- त्यर्थः । सिद्धान्तं बोधयितुं सूत्रं व्याकुर्वन्ति सर्वेष्वित्यादि । तर्ह्यवज्ञादोषस्य कथं निवृत्तिरित्यत आहुः एतेनेत्यादि । एतेनैवेति । उपासनभेदस्थापनेनैव । अयुक्तमिति । विरुद्धत्वादयुक्तम् । तथाच शक्यस्य युक्तस्याकरणे अपराधः, न त्वशक्यस्यायुक्तस्याकरणे । अतोऽनुपासनस्य तत्रापरा- धाप्रसञ्जकत्वेन प्रतिबन्धाभावात्सिद्धिरित्यर्थः । एतेन यत् पूर्वं 'न भेदादिति चे'दितिसूत्रेऽधि- कगुणोपसंहारौचित्यमुक्तम्, तत्प्रकारोत्र दर्शितः । तत्तद्रूपप्राधान्येन ब्रह्मोपासकस्याधिका अपि गुणा अविरुद्धाः एवोपसंहार्याः, न त्वन्येपीति । तस्मादेषां व्यस्तोपासनमेव कर्तव्यमिति सिद्धम् । अन्ये तु, अत्र यासु यासु विद्यासु श्रुतिनानात्वेऽप्यर्थैक्याद्वैद्यैक्यम्, यथा 'मनोमयः प्राणशरीरः', 'कं ब्रह्म', 'सत्यकामः सत्यसङ्कल्प' इत्यादौ । यथा च, 'प्राणो वा व संवर्गः', 'प्राणो वा व ज्येष्ठः श्रेष्ठः', 'प्राणो ह पिता प्राणो माते'त्यादौ च । तत्र श्रुतिनानात्वस्य गुणा- न्तरपरत्वात्, विद्याभेदेन विद्यैक्याच्च, स्वपरशाखोक्तं गुणजातं विद्याकार्त्स्न्यार्थमुपसंहार्यमिति पूर्वपक्षे, शब्दादिभेदाद्विद्याभेदं सिद्धान्तयन्ति । पूर्वतन्त्रे शब्दान्तरादीनां कर्मभेदकत्वेन सिद्ध- त्वात्, प्रकृते च 'वेद' 'उपासीत' 'ऋतुं कुर्वीते'त्यादिशब्दभेदात् । आदिपदेन यथासम्भवं गुणादीनामपि भेदस्य सङ्ग्रहश्च । नच शब्दभेदेपि 'यजति' 'जुहोती'त्यादिवत् 'वेदोपासीते'- त्याद्यावर्यभेदाभावान्न भेद इति वाच्यम् । तथाप्येकस्मिन्नेव वेद्ये प्रतिप्रकरणमितरेतरव्यावृत्तगुणो- पदेशरूपानुबन्धभेदेन तस्यां तस्यां विद्यायां तादृक्तादृग्गुणविशिष्टस्यैवोपास्यतया विद्याभेदोपपत्तेः । एवं स्थितेपि 'सर्ववेदान्तप्रत्यये'त्यादि द्रष्टव्यमिति चाहुः ।
रश्मिः । सुबोधिन्यां संनिवेशोऽवताराणां स्पष्टः । उक्तरीत्येति । अव्यवहितपूर्वोक्तरीत्या । तत्प्रकार इति । व्यस्तोपासनायामपराधाभावजनकत्वमवतारेऽधिकगुणोपसंहारो दर्शितः । किञ्च, अविरुद्धेत्यादिः प्रकारः । तेषामिति । मत्स्यादीनाम् । आभरणादिरूपत्वे तत्तद्वाचकशब्दानां मन्त्राणां चादिपदाद्वाकार- कर्मणां च भेदादेवकारः । शब्दान्तरेति । आदिनाभ्याससंज्ञे । वेद इति । अमः सुः । वेदम् । गुणादीनामिति । वेदत्वादिवगुणाः । आदिना संज्ञारूपे । वेदोपासीतेति । वेदशब्दामोडा । वेदमुपासीतेति । अर्थभेदेति । 'यज देवपूजासङ्गतिकरणदानेषु' । 'हु दानादनयोः' । अत्र दानरूपा- र्थभेदवत् 'वेदोपासनं कुर्वीत' 'ऋतुं कुर्वीते'त्यर्थभेदाभावात् । प्रतिकरणमिति । करणं करणं शब्दं शब्दम् । वीप्सायां प्रतिः । इतरेतरस्मिन् मनोमयादौ व्यावृत्ता ये गुणा मनोमयत्वादयः तेषामुपदेशरू- पोऽनुबन्धः मुख्यमपाथी तस्य भेदस्तेन । 'अनुबन्धः प्रकृत्यादेर्दोषोत्पादे विनश्वरे । मुख्यमपायिनि शिशौ प्रवृत्तस्यानुवर्तन' इति विश्वः । स्थितेपीति । विद्याभेदे । सर्वेति । आविष्कृतत्वादिशेषदर्शनेन
१. अयुक्तं प्रकाण्डे । २. रश्मौ प्रतिकरणम् । 1959