अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2089, कुल 2600 में से
संदर्भ में पढ़ें४९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० २४ सू० ६३. समाहारात् ॥ ६३ ॥ (३-३-२४.) कर्ममार्गीयोपासने निर्णयमुक्त्वा ज्ञानमार्गीयोपासने तमाह । अथर्वोपनि- षत्सु नृसिंहोपासनादिषु मत्स्यकूर्मादिरूपत्वेनापि स्तुतिः श्रूयते । श्रीभागवते च, 'नमस्ते रघुवर्याये'त्यादिरूपा स्तुतिर्ब्रजनाथे । एवं सति रूपभेदेऽपि भगवदवं- तारत्वाविशिष्टत्वादेकस्मिन् रूपे रूपान्तरसमाहारो दृश्यत इति सर्वरूपत्वे- नैकत्रोपासनमपि साध्वित्यर्थः ॥ ६३ ॥ गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥ ऐश्वर्यवीर्यादिगुणानां सर्वेष्ववतारेषु साधारण्यं श्रूयते । तेन धर्मिधर्माणा- मैक्यात् पूर्वोक्तं साध्वित्यर्थः ॥ ६४ ॥ इति तृतीयाध्याये तृतीयपादे चतुर्विंशं समाहाराधिकरणम् ॥ २४ ॥ भाष्यप्रकाशः । समाहारात् ॥ ६३ ॥ सूत्रप्रयोजनमाहुः कर्ममार्गीयेत्यादि । कर्माङ्गतया कर्ममार्गीयेषु सामाद्युपासनेषु अङ्गनिर्णयमुक्त्वा, ज्ञानाङ्गतया ज्ञानमार्गीयेषु तेष्वङ्गनिर्णयमाहेत्यर्थः । सूत्रं व्याकुर्वन्तो विषयमाहुः अथर्वेत्यादि । अत्र मत्स्यकूर्मादिपदात् पूर्वं ब्रह्मविष्ण्वादीतिपदस्य त्रुटिर्बोध्या । तथाच नृसिंहोपासनायां 'यो वै नृसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै वै नमो नम' इति, श्रीरामोपासनायां च 'यो वै रामचन्द्रः स भगवान् ये च मत्स्यकूर्माद्यवतारास्तस्मै वै नमो नम' इत्येवं विभागेन स्तुतिः श्रूयत इत्यर्थः । द्वितीयं पौराणोदाहरणम् । एवं विषय उक्तः । तत्र तत्सर्वरूपत्वेनोपासना कार्या, उत तेषां रूपाणां विरुद्धधर्मवत्त्वात् तथा न कार्येति संशये, शब्दादि- भेदेन नानोपासनस्य पूर्वमुक्तत्वात् सर्वरूपत्वेनोपासने च तद्विरोधान्न कार्येति प्राप्तम् । तत्र सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति एवं सतीत्यादि । अत्र 'अङ्गेषु यथाश्रयभाव' इत्यनुवर्तते । समाहार इति । एकीभावः । तथाच ज्ञानमार्गीयोपासनाङ्गेष्वपि यथाश्रयभावे सति, 'रूपभेदेपी'त्यादिनोक्तरीत्या समाहारदर्शनात् तथेत्यर्थः । एतदेवाभिप्रेत्य 'मेदान्नेति चे'दिति सूत्रे 'उपासनाविषयेष्वि'- त्यादिनावतारेष्वपि सर्वगुणोपसंहारौचित्यमुक्तम् ॥ ६३ ॥ अत्र हेत्वन्तरं सूत्रान्तरेणाह । गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥ अत्र चकारोऽधिकरणपूर्णत्वद्योतकः । शेषं प्रकटार्थम् । तथाच भगवत्त्वप्राधान्योपासने एवं सर्वरूपत्वेनोपासनं कार्यम्, तत्तद्रूपप्राधान्येनोपासने तथा न कार्यमिति विभागान्न कोपि विरोध इत्यर्थः ॥ ६४॥ इति चतुर्विंशं समाहाराधिकरणम् ॥ २४॥ रश्मिः । समाहारात् ॥ ६३ ॥ पूर्वकाण्डव्यवच्छेदेन वेदान्तपरिच्छिन्नकर्ममार्गीयोपासन इत्यर्थं मत्वाहुः कर्माङ्गतयेति । 'यदेव विद्यये'ति श्रुतिविषयेषु सामोपनिषदुक्तोपासनेषु पूर्वाधिकरणे निर्णयमुक्त्वा, आदिना यजुः 'तमेतं वेदानुवचनेने'ति श्रुत्याहुः ज्ञानाङ्गतयेति । मत्स्यकूर्मश्रुत्यभावं नृसिंहोपासने- ऽदृष्ट्वाहुः अत्र मत्स्येति । तथाचेति । श्रुतौ पूरिते च । आदिना रामोपासनेत्याशयेनाहुः श्रीरा- मेति । नृसिंहोपासना आदिर्यासां रामोपासनादीनां ता नृसिंहोपासनादयः तासु । अत्रातद्गुणसंविज्ञाने नृसिंहोपासनानन्वयः श्रूयत इत्यनेनेत्याशयः । अनन्वयापेक्षायां तु न त्रुटेः प्रयोजनम् । यथाश्रयभाव इति । यथाश्रयभावो व्याकृतः । तथेत्यर्थ इति । सर्वरूपत्वेनैकत्रोपासनमपि साध्वित्यर्थः ॥ ६३ ॥ गुणसाधारण्यश्रुतेश्च ॥ ६४॥ तत्तद्रूपेति । मत्स्यत्वादिरूपप्राधान्ये तु । मत्स्य इति प्रतीतिः, न तु मत्स्यो भगवानिति प्रतीतिरिति भावः ॥६४॥ इति त्रयोविंशं समाहाराधिकरणम् ॥२३॥ १. अवतारत्वस्य । 1964