अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2092, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४११ भाष्यप्रकाशः । विकल्पन्ते, फलभेदे तु यथाकामं समुच्चीयन्ते, क्वचिदेकस्योपासनस्य स्वकामितानेकफलत्वे विकल्पन्ते च । कर्ममार्गीयविद्याङ्गानि तु बहूनां विद्यानां फलैक्येपि यथाश्रयं तत्रैव व्यवतिष्ठन्ते, ज्ञानमार्गीयविद्याङ्गानि तु यथाश्रयं क्वचित् समाधीयन्ते, क्वचित् यथाश्रयं व्यवतिष्ठन्ते । अवता- रोपासनं च यथाकाममेव भवति, सर्वासां परविद्यानामुपासरूपसाक्षात्कारः फलमिति च ॥ ६६ ॥ . इति पञ्चविंशं न वा तत्सहभावाश्रुतेरित्यधिकरणम् ॥ २५ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ ३ ॥ रश्मिः । फलभेद इति । क्वचिदेकस्येति । यथा 'अकामः सर्वकामो वे'त्यत्र । 'अङ्गेषु यथाश्रयभाव' इत्यस्या- र्थसङ्ग्रहः कर्ममार्गीयेत्यादिः । 'यथाश्रय'मिति सूत्रव्याख्याने व्याख्यातम् । तत्रैव अवयविन्येव । 'समाहार'सूत्रार्थसङ्ग्रहः ज्ञानमार्गीयेति । 'गुणसाधारण्ये'त्यादिसूत्रार्थसङ्ग्रहः अवतारेति । 'दर्श- नाच्चे'ति सूत्रार्थसङ्ग्रहः सर्वांसामित्यादि । इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण सम्पूर्णवेत्रा विठ्ठलरायजिद्भातृयगोकुलोत्सवात्मजगोपेश्वरजिता कृते भाष्यप्रकाशस्य तृतीयाध्यायस्य रश्मौ तृतीयाध्यायस्य तृतीयः पादः सम्पूर्णतामगमत् ॥ ३ ॥ ३ ॥ इति श्रीमत्कृष्णद्वैपायनप्रणीतब्रह्मसूत्रेषु तृतीय उपनिषदं बोधकताप्रकारनिरूपके साधनाध्याये गुणोपसंहारो नाम तृतीयः पादः ॥ ३ ॥ ३ ॥ 1967