अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2106, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। १३ तदपेक्षया पदावृत्त्यार्थान्तरग्रहणस्यैवौचित्यात्। हानाविति। सूत्रे तुशब्देन श्रुत्यन्तरे समाभ्यधिकनिषे- धादत्र साम्यपदं लक्षणयाऽद्वैतपरमितिपक्षो निरस्यते, तथा चेह साम्यशब्दो नाद्वैतपरः, किन्तु हानौ ओहाङ् त्यागे। ब्रह्मणा सृष्टीच्छया स्वरूपात्यागे विभागस्य पूर्वस्थितित्यागात्मकत्वाद्विभागे इति यावत्, तस्यां सत्यां ये धर्मास्तिरोहितास्ते परमोपायने आविर्भूतास्तत्प्रयुक्तसाम्यपरः। तत्र हेतुः उपायनेत्यादि। दृष्टान्तः कुशेश्यादि। 'कुशाछन्दःस्तुत्युपगानवत्' प्रस्तोतृस्थापितकुशाछन्दःस्तुत्यु- पगानसाधनप्रकारवदिति योजना। हानिशब्देनोच्यत इति, त्यागात्मकत्वात्क्षयात्मकत्वाद्बोध्यत इत्यर्थः। तस्यैवेति, ब्रह्मसम्बन्ध एव। अत्राभेदबोधनादिति। जीवे ब्रह्माभेदबोधनात्। तदुक्तपदसूचितमर्था- न्तरमाहुः अपि चेत्यादि। ब्रह्मधर्मवदिति, अत्र तत्सूचनवदित्यर्थः। उपसंहारप्रकरणे धर्मसाम्य- विचारस्यासङ्गतत्वानायमधिकरणार्थ इत्याशङ्कायामाहुः यथेत्यादि। तथा चोपसंहारसादृश्यात्प्रा- सङ्गिकमेतन्निरूपणम्, फलविचारे उपयोक्ष्यमाणत्वाच्च प्रसङ्ग इत्ययमेवाधिकरणार्थ इत्यर्थः। यत्तु उपायनशब्दस्य हानशब्दशेषत्वं कैश्चिद्व्याख्यातम्। तच्चिन्त्यम्। आथर्वणिकश्रुतोपायनशब्दस्य फलबोधकत्वेन हानशेषत्वाभावेन, तस्य विषयवाक्यत्वाभावप्रसञ्जकत्वात् । 'तदा विद्वान् पुण्य- पापे विधूये'त्येतावन्मात्रस्यैव विषयवाक्यत्वेप्याथर्वणताण्डिकौषीतकिश्रुतिषु कम्पनार्थकविधूननशब्देन हान्यर्थलाभात्तस्य हानशेषतायाः क्लिष्टत्वात् । यदप्यसोपायनवादस् स्तुत्यर्थत्वादन्यदीयपु- ण्यपापयोः कथमन्यत्र प्राप्तिरित्यत्र नाभिनिवेशः कार्य इत्युक्तम् । तदपि न रोचिष्णु । 'राज्ञि चामात्यजा दोषाः पत्नीदोषाश्च भर्तरि'त्यादिस्मृतावभिमानमात्रेण दोषसंक्रमकथनात्, भारतादौ यमस्य माण्डव्यशापप्रसङ्गे बालकृतपापस्य जनकत्वोपाधिना पितृसंक्रान्तिस्मरणाद्विश्वामित्रपुण्येन त्रिशङ्कोः स्वर्गप्राप्तिस्मरणाच्चात्रापि तथा सम्भवेन स्तुतिमात्रत्वाङ्गीकारस्याप्रयोजकत्वात् । 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे, ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथे'त्यादिश्रुतिस्मृतिभिर्ज्ञानस्य कर्मनाशक- त्ववद्विद्याविशेषस्यान्यत्र कर्मसंक्रामकत्वेपि बाधकाभावात् । ननु सुकृतदुष्कृतयोः कर्तृसामानाधिक- रण्यस्यैव सर्वत्र दर्शनात्साक्षादन्यस्मिन् सम्भवो न शक्यवचन इति चेत्। न । 'राज्ञि चामात्ये'त्याद्यु- क्तस्मृतिविरोधापरिहारात् । न च तत्र न साक्षात्संक्रमोऽपि तु फलस्य तत्र सम्बन्धात्तत्र तदुपचर्यत इति वाच्यम् । हेतुव्यधिकरणस्य फलस्यैवाशक्यवचनत्वात् । वाक्यबलात्तु सुकृतदुःकृताङ्गीकारस्यापि शक्यकल्पनत्वात् । न च तत्राद्रव्यत्वं बाधकमिति वाच्यम् । गन्धवदुपपत्तेः । अवयवगमनस्य युक्ति- विरुद्धत्वात् । सूत्रकृताप्यनङ्गीकाराच्च । तस्मात्पूर्वोक्त एव प्रकारः साधीयानिति दिक् ॥ १० ॥ प्रसङ्गाद्भक्तिपूर्वदशां विचारयतीत्याशयेन सूत्रं पठन्ति सम्पराय इत्यादि। साम्पराय इति पाठे स्वार्थेण् बोध्यः। ननु सम्परायशब्दः परलोकवाचकत्वेन प्रसिद्धस्तत्कथं भक्तिपूर्वदशाविचारोत्रेती- त्याशङ्कायां सूत्रे तर्त्तव्याभावपदात्तथेति हृदिकृत्य तर्त्तव्यलिङ्गं विषयवाक्यमुपन्यस्यन्ति वाजेत्यादि। इदं वाक्यं शारीरब्राह्मणस्थम्, तत्र पूर्वं 'मनसैवानुद्रष्टव्य'मित्यनेन तद्दर्शनसाधनमुक्त्वा 'विरजः परं आकाशा'दित्यादिना विरजत्ववशित्वेशानत्वादीन् धर्मान् बोधयित्वा ततोऽनिरुक्तत्वाय 'नेति नेती'त्यने- नैतावन्मात्रत्वं निषिध्य, 'अगृह्यो नहि गृह्यते अशीर्यो नहि शीर्यतेऽसङ्गोऽसितो न सज्जते न व्यथते' इत्यनेन लौकिकप्रमाणाग्राह्यत्वमनाशित्वमसङ्गत्वं षिञ् बन्धने अबद्धत्वेन निर्दुःखत्वं चोक्त्वा तेन जडजीवविलक्षणं ब्रह्मस्वरूपं बोधयित्वा ब्रह्मण एतादृशत्वात्तद्विदपि साध्वसाधुकर्मरहित इति बोधयितुं पठ्यते- 'अतः पापमकरवमतः कल्याणमकरवमित्युभे ह्येष एते तरत्यमृतः साध्वसाधुनी'ति, अत इदमभिसन्धाय पापमकरवं कृतवानस्मि अत इदमभिसन्धाय कल्याणं पुण्यं कृतवानस्मि इति 1981