अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 211, कुल 2600 में से
संदर्भ में पढ़ें१२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः। तावत्सर्वसाक्षात्कारतन्निर्माणादिनिपुणः कश्चित् सिद्धयत्येव । विवादाध्यासितं भूभृधरादिकं स्वनिर्माणसमर्थकर्तृपूर्वकं कार्यत्वात् सार्वभौमसदनवदिति प्रयोगात् । किंच सर्वचेतनानां सुख- दुःखभोगस्य धर्माधर्मसाध्यत्वेऽपि धर्माधर्मयोश्चेतनत्वाच्चेतनाधिष्ठानमन्तरेण तयोः फलहेतुत्वा- नुपपत्तेः सर्वकर्मानुगुणसर्वफलदानचतुरः कश्चिदास्थेयः । वर्धकिनानधिष्ठितस्य वाश्यादेरचेतनस्य देशकालाद्यनेकपरिकरसंविधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । तथाच प्रयोगः । धर्माधर्मौ चेतनाधिष्ठिततयैव फलोपधायकौ अचेतनत्वाद् वाश्यादिवदिति । नच पूर्वानुमाने कार्यत्वस्य हेतोर्बीजोत्पन्नाङ्कुरदृष्टान्तेन साधारणत्वं शङ्क्यम् । अङ्कुरादौ संदेहस्यानन्याहितत्वेन