भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2122, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2122

परिशिष्टम् । २९ 'स्वे महिम्नी'त्यस्य स्वस्वरूपे व्यापक इत्यर्थः सेत्स्यतीत्यस्वरसमुद्भाव्य पक्षान्तरमाहुः स्वरूपामके महिम्नीति वेति । अनेनापि प्रकारेण व्याख्याने तत्रासिरित्यर्थः । तथात्वं व्याकुर्वते भगवदित्यादि । सर्वभावस्य रसात्मकत्वाद्वगवद्भेदः प्रागेव विवृत इति महिमरूपत्वं विवृण्वन्ति तदितरेत्यादि । तथा च भावस्याधिकरणसापेक्षत्वादर्थादेव तत्रासिरिति सोपि पक्षो न दुष्ट इत्यर्थः । एवं सर्वात्मभाव एवात्रोच्यत इति व्याख्याय पूर्वोक्तशङ्कामपाकर्तुं सर्वात्मभावलिङ्गानि स्फुटीकुर्वन्तः सूत्रस्थं हेतुं व्याकुर्वन्ति सञ्चित्यादि । त्रिविधा इति द्वितीया निरूप्येत्यनेनान्वेति । तमेवानुबध्नाति, भृतभक्तं भृतभक्तिनिष्ठं भावमेव वा गोचरयतीत्यर्थः । तत्र हेतुः । तच्छब्देत्यादि । 'स वा एष' इत्यनेन पुरुष उच्यते, 'एवं पश्य'न्नित्यादिना दर्शनमननादिकर्तृतायोधनेन भाववैशिष्ट्यं च स्फोट्यंत इति पूर्वोक्तानुबन्धदर्शनात्तादृशभक्तिनिष्ठसर्वात्मभावरूप एव महिमा तत्राभिप्रेत इत्यर्थः । एवं सतीति भिन्नं वाक्यम् । उक्तरूपे महिम्नि विद्यमान एव श्रुतिसङ्गतिरित्यर्थः । लिङ्गं व्याकर्तुमादिपदार्थमाहुः आविपदादित्यादि । तत्स्वरूपं विवृण्वन्ति पूर्वमित्यादिना । स्फुटमग्रे । ननूक्तयुक्तिभिरत्र भवतु सर्वात्मभावस्थाप्यत्र फलत्वेन सर्वग्रन्थिमोक्षस्यैवोक्तत्वात्तस्य च 'भिद्यते हृदयग्रन्थि'रिति श्रुत्यन्तर- स्वारस्येन परावरदर्शनफलरूपस्यैव ग्राह्यत्वात्तस्य च 'तमेवंविद्वानमृत इह भवती'त्यादिश्रुत्यन्तरे मुक्तिरूपत्वेनैवोक्तत्वादस्यापि मुक्तावेव यदि पर्यवसानं तदा फलतो न कश्चिद्विशेषः । अथ न, तदा प्रकृते फलोक्तिविरोध इत्यस्यापि फलबलेन पूर्वविकल्पत्वमेवेत्याशङ्कां हृदिकृत्वा सूत्रांशमवतारयन्ति ननु सर्वैत्यादि । प्रज्ञान्तरपृथक्त्ववदिति, प्रज्ञान्तरकृतं पृथक्त्वं प्रज्ञान्तरपृथक्त्वं तद्वत् न बाध इत्यन्वयः । एतमेवार्थं व्याकुर्वन्ति मुमुक्षु भक्तत्यादि । शेषं प्रकटार्थम् । दृष्टश्च तदुक्तमित्यत्रापि न बाध इत्यन्वयो बोध्यः । एवं च दर्शनान्तरे हृदयग्रन्थिभेदनं नानाविधवृत्त्यनुत्पत्तिरूपम्, अत्र तु सर्वग्रन्थीनां प्रविमोक्षो नानाचित्युदयेपि तासामबन्धकत्वरूपमिति दर्शनभेदात्फलभेदस्तत्क्रतुन्याया- दप्युपपन्न इति भावः । लिङ्गविरोधपरिहारायाग्रिमं पठतीत्याशयेन सूत्रं पठन्ति न सामान्यादिति । विरोधं व्युत्पादयन्ति नन्वित्यादि । प्रतिपाद्यत इति । 'सालोक्यसार्ष्टी'ति वाक्ये उच्यते । एवं सतीति, श्रुतिस्मृत्योर्विरोधे सतीत्यर्थः । उक्तप्रमाणं सालोक्यम् । अनेकश इति, 'आदित्यो यूपः यजमानः प्रस्तरः स एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुष' इत्यादावित्यर्थः । प्रकरणादिति, लभ्यत इति शेषः । अत एवेति, लोकान्तरस्य सूत्युत्पत्यत्वादेवेत्यर्थः । परेणेति सूत्रे ॥ श्रुतिवाक्यपदेन, 'न पश्य' इति श्लोको बोध्यः । अनुबन्ध इति, अनु- पञ्चादुच्यते सम्बध्यत इत्यनुबन्धः । उक्तार्थे अपुष्टार्थत्वं विभाव्यार्थान्तरमाहुः अथवेत्यादि । अग्रिमसूत्रभाष्यं तु प्रकटार्थम् । अन्ये त्वेतत्सूत्रमग्रिमाधिकरणे योजयन्ति । तदग्रे विचारणी- यम् ॥ २५ ॥ एवमेनाधिकरणेनाभिहितभक्तिरूपसर्वात्मभावरूपं तस्य सर्वसाधनोत्कृष्टत्वं तत्फलं च निर्धारितम् । अतःपरम् । १. एतावदेवेोपलब्धमिति । 1997

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2122, कुल 2600 में से · BharatKosha