अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 213, कुल 2600 में से
संदर्भ में पढ़ें१२६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः। पक्षान्तर्भूतेषु गुरुतररथशिलामहीरुहादिष्वनेकचेतनसाध्यप्रवृत्तिकत्वेन व्यभिचारात् । नापि चेतनमात्राधीनत्वम् । सिद्धसाधनत्वात् । किं च । उभयवादिसिद्धानां जीवानामेव नियामक- त्वाभ्युपगमो युक्तः । लाघवात् । नच जीवानां पूर्वोक्तरीतिकोपादानादिविज्ञानतन्निर्माणशक्त्य- भावः शङ्कनीयः । तपोयागादिभिस्तेष्वपि तादृशज्ञानसामर्थ्ययोरुपगमे बाधकाभावात् । एतद- पेक्षयेश्वराख्यपुरुषकल्पनस्य तत्र मामर्थ्यविशेषकल्पनस्य चात्यन्तापरिदृष्टत्वेनातिगुरुत्वात् । अतोऽचेतनारब्धत्वलिङ्गकानुमानेन नेश्वरसिद्धिः । नापि कार्यत्वलिङ्गकेन । महीमहार्णवादीनां सावयवत्वेन कार्यत्वेऽप्यनेकत्वात् ते सर्वे एकदैवैकेन निर्मिता इत्यत्र प्रमाणाभावात् । न चैकघटवत् सर्वेषामेककार्यत्वं, येनैकदैवैकः कर्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालैक्यस्य नियन्तुमशक्यत्वात् । नच जीवानां तादृशनिर्माणशक्त्यदर्शनेन तन्निष्ठात् कार्यत्वबलेनैव तत्सिद्धिरिति वाच्यम् । पूर्वमशक्ता- नामपि पश्चात् पुण्यविशेषोपचयेन शक्तिदर्शनात्, तद्विशेषोपचयेनातिशयितादृष्टसंभावनया च तादृशविलक्षणकार्यकर्तृत्वस्यापि संभवादित्युक्तम् । किं च । युगपत् सर्वोच्छित्तिः सर्वोत्पत्तिश्च न प्रमाणपदवीमधिरोहतः । अदर्शनात् । क्रमेणैवोत्पत्तिविनाशयोः कल्प्यमानयोर्दर्शनानुगुण्येन तथा कल्पनायामपि विरोधाभावाच्च । अतो बुद्धिमदेककर्तृकत्वे साध्ये कार्यत्वस्यानेकान्तिकत्वम् । रश्मिः। व्यभिचारादिति साध्याभाववत्सु गुरुतररथादिषु स्वसमवायारब्धेषु साध्यशून्येषु हेतोर्व्यभिचारादि- त्यर्थः । साधारणो हेतुरित्यर्थः । साध्यं प्रकारान्तरेण लक्षयित्वा दूषयन्ति नापीत्यादि । सिद्धेत्यादि । शरीरादौ तथात्वादित्यर्थः । अयं दोषः पक्षताविघटकः । सिषाधयिषाविरहविशिष्टसिद्धयभावः पक्षता । एतच्च हेत्वाभासान्तरं जगति नायमित्यतो दूषणान्तरमाहुः किंचेत्यादि । कार्यत्वलिङ्गकं स्वरूपासिद्धत्व- मित्याहुः महीत्यादि । तथाच पक्षे व्याप्यत्वाभिमतस्येश्वर साधकस्य कार्यत्वस्य विरहात् स्वरूपासिद्धत्व- मित्यर्थः । सावयवत्वं लिङ्गमपि बाधितमिति कार्यं सावयवत्वादित्यनुमानमपि दुष्टमिति भावः । पक्षे साध्याभावो बाधः इति तल्लक्षणात् । प्रतिज्ञान्तररूपं निग्रहस्थानं वा व्याख्येयम् । सर्वेषामित्यादि महीमहार्णवादीनामेकस्य कार्यत्वमित्यर्थः । तत्सिद्धिरिति स्वनिर्माणसमर्थकर्तृपूर्वकत्वसिद्धिरित्यर्थः । संभवादिति यथा प्रियव्रतः 'प्रियव्रतकृतं कर्म कोनु कुर्याद्विनेश्वरम्' इतिवाक्यात् । दर्शनेति न्याय- शास्त्रानुगुण्येन । तथाकल्पनायामिति पुण्यविशेषोपचयेनातिशयितादृष्टसंभावनया च तादृशविलक्षण- कार्यकर्तृत्वकल्पनायाम् । अत इति विवादाध्यासितं भूभूधरादिकं बुद्धिमदेककर्तृपूर्वकं कार्यत्वात् । घटादिवदित्यनुमाने तथेत्यर्थः । अनैकान्तिकत्वमिति सार्वभौमसद्मनेति च विवादाध्यासितं भूभूधरादिकं बुद्धिमदनेककर्तृपूर्वकं कार्यत्वात् सार्वभौमसदनवदित्यनेन बुद्धिमदनेककर्तृकत्वे सिद्धे एतत्साध्याभाववति भूभूधरादिके कार्यत्वरूपहेतोर्वृत्तेः साधारणानैकान्तिकत्वमित्यर्थः । तथाच सार्वभौमसदनदृष्टान्तेन बुद्धिमदनेककर्तृत्वे सिद्धे एतत्साध्याभाववति भूभूधरादिके कार्यत्वरूपहेतो- र्वृत्तेस्तस्याप्यवगमात् साधारण्यानैकान्तिकत्वावगमादिति सार्वभौमेतिपङ्क्त्यर्थः । कार्यत्वं बुद्धि- मदेककर्तृकत्वसाधकं घटनिष्ठत्वात् पटनिष्ठकार्यत्ववदित्यनुमानमपि । कार्यत्वं न बुद्धिमदेककर्तृकत्व- बाधकं मठादिभूतसमूहनिष्ठत्वात् घटपटस्तम्भसमूहनिष्ठकार्यत्ववदित्यनुमानेन सत्प्रतिपक्षमित्याहु 126