अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 215, कुल 2600 में से
संदर्भ में पढ़ेंविकारद्वारेण भवतीति विचित्रकार्यविशेषारम्भायैव ज्ञानशक्तिवत् कर्मसम्बन्धोऽप्यवश्याभ्युपमेयः । ज्ञानशक्तिवैचित्र्यस्यापि कर्ममूलत्वाच्च । इच्छायाः कर्मारम्भहेतुत्वेऽपि विषयविशेषितायास्तस्याः सत्त्वादिमूलत्वेन कर्मसम्बन्धोऽवर्जनीयः । एवं सिद्धे कर्मसम्बन्धे क्षेत्रज्ञा एव कर्तारः सिद्ध्यन्ति, न तु तद्विलक्षणः कश्चिदनुमानात् सिद्ध्यति । भवन्ति चात्र प्रयोगाः । तनुभवनादिकं क्षेत्रज्ञकर्तृकं, कार्यत्वात् घटवत् । ईश्वरः कर्ता न भवति प्रयोजनशून्यत्वात् मुक्तात्मवत् । तथा, अशरीरत्वात् तद्वदेव । न च क्षेत्रज्ञानां स्वशरीरा- धिष्ठाने व्यभिचारः । तत्राप्यनादेः सूक्ष्मशरीरस्य भावात् । विमतिविषयः कालो न लोकशून्यः कालत्वात् वर्तमानकालवत् । किंच । ईश्वरः किमशरीरः सशरीरो वा कार्यं करोति । नाद्यः । मनसो नित्यत्वेऽपि अशरीरेषु मुक्तेषु मानसकार्यादर्शनादीश्वरेऽप्यकर्तृत्वापत्तेः । नेतरः । विकल्पासहात्वात् । तन्नित्यमनित्यं वा । न तावन्नित्यम् । सावयवस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्यनित्यम् । तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात् । नच स्वयमेव हेतुरिति युक्तम् । अशरीरस्य तदयोगात् । नाप्यन्यच्छरीरेण शरीरवान् । अनवस्थानात् । किंच । सव्यापारो निर्व्यापारो वा । नाद्यः । अशरीरस्य तदसंभवात् । धवलकर्तुरीशस्य साक्षिणो निर्गुणात्मनः ॥ कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्' ॥ 'प्रकृतिस्थोपि पुरुषो नाज्यते प्राकृतैर्गुणैः । अविकारादकर्तृत्त्वान्निर्गुणत्वान्जलार्कवत्' ॥ 'यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुर्विशेषं विशेषवत्' ॥ 'एतद्भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानं पुरुषं दैवं कर्म विचेष्टितम्' ॥ इत्यादि पुराणप्रामाण्यादवश्यमाश्रयणीयमित्यर्थः । सत्त्वाद्याश्रयेण यद्भवति तदाहुः पुरुषस्ये- त्यादि । ईश्वरस्याप्यात्मनः सत्त्वादियोग इत्यर्थः । अवश्येत्यादि लोके तथा दर्शनादित्यर्थः । विचित्र- कार्यारम्भो न ज्ञानवैचित्र्यात् किं तु इच्छावैचित्र्यात् तस्याश्चाकर्ममूलत्वाददोष इत्यत आहुः इच्छाया इत्यादि । इच्छाया हेतुत्वेऽपि न सामान्यरूपेण तथा सति सृष्टीच्छया प्रलयः स्यादतः सृष्टिविषयिणीच्छात्वेन सृष्टिहेतुत्वमेवमन्यत्रेत्येवं आत्मप्रसादजसुखं स्यादित्येवं विषयविशेषिताया- स्तस्या हेतुभूतायाः सत्त्वादिरूपप्रधानानामपिचित्तमूलत्वेनेति सत्त्वादिहेतुकर्मसंबन्धो वर्जनीय इत्यर्थः । ननु सृष्ट्यादौ शरीराणामनुत्पन्नत्वात्क्षेत्रज्ञानां स्वशरीराधिष्ठानासंभवे कर्तृत्वव्यभिचार इत्याशङ्क्य पराकुर्वन्ति न च क्षेत्रज्ञानामित्यादि । प्रवाहानादित्वमभिप्रेत्य स्थूलशरीरसत्त्वासत्त्वसाधनायाहुः विमतीत्यादि । प्रवाहानादित्वसादित्वरूपविविधमतिविषयः । मनस इति करणभूतस्य मनस इत्यर्थः । तदिति शरीरमित्यर्थः । तद्व्यतिरिक्तस्येत्यादि ईश्वरव्यतिरिक्तस्येश्वरशरीरहेतोः सृष्टि- प्राक्कालेऽभावादित्यर्थः । क्षेत्रज्ञव्यतिरिक्तस्य क्षेत्रज्ञशरीरहेतोः सृष्टिप्राक्कालेऽभावादित्यर्थो वा । स्वय- मिति ईश्वर इत्यर्थः । तदयोगादिति हेतुत्वायोगादित्यर्थः । अनवस्थेति अनवस्था शरीरस्थिति-